________________
छंदोनुशासन भक्षे रत्ने लोष्ठे कांचने वा तृणेवा । स्रोतस्विन्यां कामिन्यां वा निंदने वा स्तुतो वा, चित्रां चित्तावस्थां हित्वा संश्रयेथाः समाधि " मंडूकी चंचलावेत्यन्ये २५० ० माद्रम्ययाश्चंद्रलेखाः छैः ॥ मगणात्परे रमययाः छैरिति सप्तभिर्यतिः यथा “राजन् सत्यं तदेतद्ब्रूमोद्भुतं वर्णनं ते, दोर्दडस्थामभिः स स्पर्द्धा करोतु त्वदीयां । आच्छिद्याद्यो मुरारेर्वक्षस्थलात्कौस्तुभं वा, यः कच्चंद्रलेखां शंभोर्जटामंडलाद्रा” २५१ ० राद्वा ॥ रगणात्परे यदि रम्ययास्तदा वा चंद्रलेखा । ररमययाः छैरिति वर्त्तते । यथा “ एक एव क्षणोऽसावानंदनिस्पंदहेतुः, सत्कृतैः प्राक्तनैमें कैश्चित्सखेऽद्य प्रबुद्धं । नेत्रनीलोत्पलानां पीयूषवृष्टिं किरती यत्पुरः कंबुकंठी सा चंद्रलेखेव दृष्टा" २५२ ० स्जनन्या एलाः ।। सजननयाः । डैरिति पंचभिर्यतिः यथा “वलितैर्घटोद्भवमुनिदिमभि यस्य, प्रबलैबलैर्बलमथनसदृशमूर्तः । निषिषेविरे चिरमुदतटवनांताः परितो लसद्बहललवलिबकुलैलाः " २५३ ० जभनाः प्रभद्रकं ॥ नजभजराः यथा " जयति जगत्त्रयोपकृतिकारणोदयो जिनपतिभानुमा-परमधाम तेजसां । भविकसरोरुहां गलितमोहनिद्रक, भवति यदीयपादलुठनात् प्रभद्रकं " २५४ ० जर्जरास्तूणकं ।। रजरजराः यथा “ स्फीतनव्यगंधलुब्धषट्पदौघसेविताश्चैत्रमासि पश्य भांति चूतमजरीशिखाः । ऊर्द्धवदृश्यमानकंकपत्रकृष्णपक्षकास्तूणकइवेह वीर मन्मथेन लंबिताः ” २५५ ० नौ जौ भ्रौ कलभाषिणी ।। नजजभराः यथा “ स्फुरति च दक्षिणमारुतो मृदुशीतलः, प्रतिदिशमुल्लसितं च केसररेणुभिः । पिकयुवतेः प्रसृताश्च पंचमगीतयस्तदपि सखे मयि न प्रिया कलभाषिणी '' अरविंदमित्येके २५६ ० रानभभ्राः सुंदरं । रगणात्परे नभभराः “ यथा निर्ममे सपदि पत्रलता न कपोल्यो पि यावकरसो निहितोऽधरपल्लवे । वल्लभाभिसरणोत्सुकया सुदृशाऽनया, सुंदरीत्वमधिकं तदपि प्रतिपद्यते ॥ २५७ मणिभूषणं रमणीयं चेत्येके । • नागौः ॥ नगणात्परे नभभ्राश्चेत्तदा गौर्नाम ननभभणः । यथा