________________
४६
छंदोनुशासन ज्ज्यया किमित काम कार्मुकं, यद्भवत्पुरस्तव जगद्वशंवदं । मधुकरीनिनादमयमंत्रमंत्रितैर्जलरुहां सुकेसरपरागचूर्णकैः २३४ . नीवुपचित्रं ॥ नीरिति नगणाश्चत्वारो गद्वयं च यथा “ अनुसर हिमकरकिरणसमूह, भज नवकिशलयमृदुशयनीयं । प्रियसखि ननु शरदियमुपतस्थे, यदभिसरति दिनपतिरुपचित्रं '' २३५ ० जम्जल्गा धृतिः ॥ नजभज लगाः यथा " विहर नितंबबिंबफल के सुदृशां, गतनिधनानि संचिनु धनानि भृशं । रचय चिरं च सुंदरनराधिपतां, तदपि न किंचनास्ति तवचेन्न धृतिः" मणिकटकमित्यन्ये २३६ ० भी रसल्गा दर्दरकः ।। भभरसलगा: यथा “ मृत्युमुपैति यदा यदा कणशो दलत्येष तदापि न हंत विश्वसनोचितः । कालमवाप्य पुनर्जनश्रवणज्वरं, दुर्जनदर्दरकः करोति कटू. क्तिभिः ” २३७ ० म्जस्त्रागौ स्खलितं ॥ भजसनेभ्यः परौ गौ यथा "पुष्पशर रम्यतनुता सल्लवाणत्वं, वाङ्मधुरता चतुरता बहुकलत्वं । सर्वमपि चास्य सुभगस्य रतये मे, केवलमिदं व्यथयति स्खलितगोत्रं " महिता कांता वनमयूरश्चेत्यन्ये २३८ ० ल्गौ चेदिंदुवदना ।। भजसनेभ्यः परौ लघुगुरू चेदिंदुवदना यथा “ सस्पृह इव त्वयि रतेरपि दयितस्त्वद्वदनवीक्षणवशाद्गलितधनुः । ताडयति नैष भवतीं शरनिकरैरिंदुवदनेन रमणे तदसि रता" २३९ ० न्भन्ता गौ शरभललितं ।। नभनतगगाः यथा “ वहसि गंधकरटिष्टां पृष्ठदेशे, कररदैः प्रहरसि च मत्तांबुवाहे । दलयसि क्षितिधरशिरः पादपातैरिदमहो शरभललितं तेन यत्नः ” २४० ० तच्छरमा घचैः ॥ तच्छरभललितं घचैश्चतुर्भिः पभिश्च चेद्यतिः शरभासंज्ञं यथा “ मृगरिपुः शशकतुलनां यत्पुरस्तात्कलयति द्विरददलनव्यक्तकेलिः । तव सुतः स इह शरभोऽनन्यवीरः, सुतवती नतु शरभिके त्वं तदेका ” २४१ म्भन्या गौ कुटिलं । मभनयगगाः घचैरिति वर्त्तते यथा “ श्रीचौलुक्यक्षितिपतिलक दिग्यात्रार्थ त्वत्सैन्येऽस्मिन् प्रसरति किल पाताले दः । न्यंचद्भूमीभरकुटिलमूर्द्धा मन्ये, साहाय्यार्थ रचयति