________________
छंदोनुशासन निर्दलनं प्रसह्य । कुमारपालक्षितिपाल कस्त्वमुपेंद्रवज्रायुधयोस्तदत्र” १५५ ०एतयोः, परयोश्च संकर उपजातिश्चतुर्दशधा ॥ एतयोरिंद्रवज्रोपद्रवज्रयोः संकरोऽन्योन्यपादमीलनमुपजातिः । साच प्रस्तारभेदाचर्तुदशधा । एवं परयोरिंद्रवंशावंशस्थयोः संकर उपजातिश्चतुर्दशथैव । स्थापना 5 ।।।। । । । | 55 ।। | ऽ । ऽ। | ।। ।। | । ऽ ऽ । | sss । Tilisi siis 1515 issisi 1155 5155 | Isss | आद्यभेदोदाहरणं यथा “प्रायः पुमांसोऽभिनवार्थलाभे, गुणोजवलेष्वप्यकृतादराः स्युः । अवाप्य कुंदं मधुपो हि जज्ञे, गतोपजातिभ्रमणाभिलाषः " १५६ एवमन्येष्वप्युदाहार्याः । समवृत्तप्रस्तावेप्युपजातीना मुपन्यासो लाघवार्थः। सर्वजातीनामपीति वृद्धाः । सर्वजातीनामुक्तादीनां, प्रायो गायत्र्यादीनाम्, इतः परासां जगत्यादीनां कृतनामाकृतनामविसशप्रस्ताररूपस्वस्वपादानां स्वरूपभेदानां संकर उपजातिरिति बहुश्रुताः प्राहुः । यथा त्रिष्टुभः स्वप्रस्तारेण " कामे कमाहि कामयं खु दुक्खं छिदाहि दोस विणएज राग' तथा 'सकारए सिरसा पंजलीओ कायग्गिरा भो मणसा य निच्च ” परजातिप्रस्तारेण यथा “ युधिष्ठिरो धर्ममयो महाद्रुमः, स्कंधोऽर्जुनो भीमसेनोऽस्य शाखा । माद्रीसुतौ पुप्पफले समृद्धे, मूल कृष्णो ब्रह्म च ब्राह्मणाश्च " " जे आवि मंदेत्ति गुरुं विइत्ता, डहरे इमे अप्पसुएत्ति नच्चेत्यादि।। १५७ ०३० जगत्यां तो जाविंद्रवंशा ।। ततजराः यथा “ दारेषु सुग्रीवकपीश्वरस्य यद्रागानुबंधं सहसा व्यपंचयः तत्ते प्लवंगाऽधिपते किमुच्यते, हंतेंद्रवंशानुगुणं त्वयां कृतं " १५८ ० जतघ्रा वंशस्थं ॥ यथा “ पुरूरवो नाघुषि पुरवः पुरा दधुर्धरां धारयतेऽधुना भवान् । अपूर्वमेतच्चरितं न तावकं वदंति वंशस्थमिदं महीपते” १५९ वसंतमंजरी, अभ्रवंशा चेत्यन्ये । १६० . ०नभज्याः कलहंसा ।। यथा “गुणलवेऽपि सुभग प्रियसख्या, गुणिकथाक्रमवशात्प्रकृते .ते । घटयते . किमपि नाटितलज्जाकृतकमाशु सुतनुः कलहंसा "