________________
छंदोनुशासन व्याकुलेव लक्ष्यते क्षमापते” १४४ निःश्रेणिकेत्यन्ये । नो जौ ल्गौ सुमुखी ॥ यथा “कनकरुचिर्धनपीनकुचा मनसिजविभ्रमकेलिगृहं । चलनयना नवकुंददती, न हरति कस्य मनः सुमुखी” १४५ द्रुतपादगतिरिति भरतः । ० मस्जा गावेकरूपं ॥ मसजा गुरुद्वयं च । यथा "काष्ठे वा कनकेऽथवा मणौ वा लोष्ठे वा रमणीषु वा तृणे वा । शापे वा स्तवनेऽपि वा वितृष्णं साधूनां मन एकरूपमेव' १४६ ०तो जौ ल्गो मोटनकं ॥ यथा “दंततिधौतदिगंतरया रम्यं नवयौवनया विहितं । साचीकृतलोलविलोचनकं दृष्टं भवता मुखमोटनक" १४७ ० तभजल्गा उत्थापनी ॥ यथा “ सर्पद्विपेंद्रभरकंप्रमहीप्रभ्रश्यदद्रिशिखरध्वनिभिः । अंभोधिमध्यशयितस्य हरेरुत्थापनी जयति सा पृतना" १४८ ० तो नौ ल्गौ मुखचपला ॥ यथा “आकांक्षसि यदि सुखमसमं जन्मापि विमलमिह मनुषे । नागीमिव निरवधिकुटिलां, नारी परिहर मुखचपलां" १४९ ० न्यनल्गाः कमलदलाक्षी नयनलगाः यथा " विहर निदाघः सुभगहठादतिशयदीर्थीकृतदिवसः । कृतगुरुतापः कृशयति ता, कमलदलाक्षी सरितमिव " १५० रुचिरमुखीति भरतः । स्मनल्गा विमला ॥ समनलगाः यथा “ शरदायातेयं गगनमणेरिव तेजः प्रौढं तव भजतां । नृपकीतिज्योत्स्ना तुहिनरुचेरिव दिक्षु भ्राम्यत्वतिविमला" १५१ ० नना गावशोका ॥ नसना गुरुद्वयंच । यथा “ अलिवलयहुंकृतिभिरुच्चेरियमिह निषेधति भवंतं । वनभुवमितः पथिक मागाः कुमुमितसमुल्लसदशोकां” १५२ ० सज्या ल्गौ सारणी ॥ सजयलगाः यथा “ दमनस्त्रिलोचनभालामिना ज्वलितः क्षणादिह जीवेत्कथं । त्रिवलीतरंगजुषः स्युर्नचेद्रससारसारणयः सुभ्रवः ” १५३ ० तो जो गाविन्द्रवज्रा ।। यथा ।। स्वस्वागमाचारपरायणानां, पुण्यात्मनां यत्कुरते विरुद्धं । क्षोणीभुजस्तस्य भवत्यवश्यं, रौद्रेद्रवज्राभिहतस्य पातः ” १५४ ° जतजा गावुद्रवज्रा । यथा “ दधासि धात्रीं विदधासी दुष्टक्षमाभृतां