________________
इत्येवं हि पदसंख्यानं मर्यते, छन्दांसि पुनः सप्तैवेति विषयमेदो विज्ञायते । अथ किमेतान्यक्षराज्येव छन्दः । नेसाह
‘चत्वार वाव शतसहस्राणि द्वात्रिंशञ्चाक्षरसहस्राणि' इत्येवमक्षरसंख्यानं मर्यते । तसान तावदक्षराणि छन्दः स्यात् । अथ किं यदत्रैते दर्णाः श्रूयन्ते, तच्छन्दः।। नेत्याहवर्णा हि ते भवन्ति । व्यभिचरन्ति च ते ते वर्णाः, अथाप्यनुवर्तते छन्दस्त्वमतो नैते वर्णाश्छन्दः स्यात् । किं यदयं वर्णक्रमस्वच्छन्दः? । नेत्याह-क्रमो हि नाम पौर्वापर्यम् । न चानन्तर्भाव्यवर्णरूपं पौर्वापर्य शक्यतेऽध्यवसातुम् । तथा च वर्णव्यभिचारे क्रमातिचारः प्राप्नोति, अथाप्यनुवर्तते छन्दस्त्वमतो नैष वर्णक्रमश्छन्दः स्यात् ॥ अथ यदयं गुरुलघुक्रमस्वच्छन्दः। नेत्याह-यत्रापि नैवं गुरुलघुक्रमस्तनापीष्यते छन्दोव्यवहारः । स न स्यात् अयोच्येत । नोच्यते विदमित्थं गुरुलघुक्रमश्छन्द इति ॥ किं तर्हि यथाकथंचिक्रियमाणो गुरुलघुक्रमश्छन्दः स्यात् ।। नैतदेवमपि शक्यं वक्तुम् । गद्यपद्यविवेक खत्ता चाहन्केन । यथाकथंचित्क्रमस्य छन्दस्त्वेऽभ्युपगम्यमाने तदवच्छेदकमेदासंभवात् सप्त छन्दांसीति व्यवहारोपि न प्राप्नोति । तस्मान्नेषोपि गुरुलधुक्रमश्छन्दः स्थात् ॥ अथ यदत्रसमक्षरपरिमाणं तच्छन्द इति चेन्नैतदपि शक्यं विज्ञातुम् , यत्रापि नैतदक्षरपरिमाणं तत्रापीष्यते छन्दोव्यवहारः । स न स्यात् ॥ अथ यथाकथंचिदक्षरपरिमाणं छन्द इति चेन्नैतदप्यस्ति । क्रमवादेन प्रत्युक्त्वात् ॥ अथ किमनेन मन्त्रेण यत्प्रतिपाद्यते, सा विद्या छन्दः? । नेत्याह-विद्या हि नाम सा अर्थविषयिणी स्यात्, अन्दविषयं तु छन्दः प्रतिपद्यते-इति विषयमेदो भवति । ननु च भोः! न मन्त्रबोध्योऽर्थ एव विद्या स्यात्, किं तर्हि मन्त्रस्यापीष्यते विद्याशब्देन व्यपदेशः। तथा च मत्रत्रैविध्याद् ऋग्यजुःसामानीति विद्यमुपदिश्यते। गद्यपद्यगानानि चैतानि ऋग्यजुःसामानि न छन्दसोऽतिरिच्यन्ते । पद्यादित्रैविध्येन छन्दस्वैविध्यस्य सांप्रदायिकैरभ्युपेतत्वात् ॥ सत्यमेतत् ! यदि हि नाम पद्यमृक्, गद्यं यजुः, गेयं साम-इत्येवाभिप्रेतं भवताम् ; सत्तर्हि नूनमेषां मेदामेदप्रयोजकधर्मानप्युदाहरिष्यति-भवान् किंनिबन्धनोऽयं भेदः? पद्यमितराभ्यामतिरिच्यते गद्यमितराभ्यामिति । अथ कस्मात् पुनः पद्यमपि छन्दो गद्यं च गेयं चेति । तदर्थमिदं पृच्छामः-किमिदं छन्द ? इति ।
(इति छन्दस्तत्त्ववादे प्रश्नग्रन्थः।) अत्रोच्यते-प्राणमात्रा छन्दः । सर्वं चेदं स्थावरजङ्गमं सप्राणमेवेह जीवति । प्राणधारणं हि जीवनम् । अतः प्राणापगमे निर्जीवं विनश्यति सर्वम् । स च प्राणः सर्वत्र व्यक्तिभेदभिन्नया कयाचिन्नियतयैव मात्रयावस्थाय खप्रणीतं खायत्तं शरीरमधितिष्टतीति प्रतिपद्यते । तत्र वाचिकप्राणः खर इत्युच्यते । तन्मात्रा वाचिकच्छन्दः । एवं भौतिकप्राणो वैश्वानरः, तन्मात्रा च भौतिकच्छेद इत्यनुसंधेयम् । मात्रा व पुनरवच्छेदः । यद्यपि च नियतासु वाक्षु प्रयुञ्जते छन्दःशब्दम् ; अथापि नैतावता वागेव छन्दःशब्दवाच्येति भ्रमितव्यम् । नीलश्वेतादिशब्दानां गुणवाचकतया. जाति