________________
शब्दत्वेऽपि गुणिपरत्वेनोपचाराद् गुणशब्दत्ववदस्य छन्दःशब्दस्यापि गुणशब्दत्वंव्यवहारोपपत्तेः । तस्मादवच्छेदश्छन्द इत्येव सिद्धान्तः। स च मानेन वा प्रतिष्ठया वा तुलितकेन वा क्रियमाणो वस्तुखरूपमर्यादाबन्धः । ननु–स च्छन्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते।' 'ते छन्दोभिरात्मानमाच्छादयन् , यदेभिराच्छादयन् , तच्छन्दसां छन्दस्त्वम् ।' 'वे छन्दोभिरात्मानं छादयित्वोपायन्, तच्छन्दसां छन्दस्त्वम् ।' 'छादयन्तिह वा एनं छन्दांसि पापात् कर्मणः।' 'गायत्रेण छन्दसा त्वा छादयामि' इत्याद्यसकृनिर्वचनश्रवणादाच्छादकस्य छन्दस्त्वं लभ्यते, नत्ववच्छेदस्य । आच्छादकानामवच्छेदकत्वसंभवेऽपि अवच्छेदकानामाच्छादकत्वासंभवात् । अत एव तु लोकेऽपि मानस्य प्रतिष्ठायास्तुलितकस्य वा छादकत्वाप्रसिद्धिः-इति चेन; अप्रसिद्धरप्रसिद्धः । तथा हि-केयमप्रसिद्धिः? । लौकिकानामप्रतिपत्तिर्वा, खरूपतोऽसत्त्वं वा?। नाद्यः, न हि लौकिकानामप्रतिपत्त्या प्रमाणसिद्धोऽर्थः शक्यमनभ्युपगन्तुम् ; प्रतिपत्तिमात्रेण वा प्रमाणान्तरैरसिद्धः शक्यं खीकर्तुम् । व्यवहारसिद्धिप्रवणा हि लौकिका न वस्तुसत्त्वमपेक्षन्ते । शन्दज्ञानानुपाती वस्तुशून्यो विकल्प' इति पातलोतरीया विकल्पवृत्त्या व्यवहरतामसत्यप्यर्षे प्रतिपत्तिदर्शनात् । अत एवारूपत्वे प्रमाणतः सिद्धेऽपि. हास्यशृङ्गारकीर्त्यादीनां शुरुत्वं, प्रेमानुरागवीरादीनां रक्तत्वं, क्रोधापकीादीनां कृष्णत्वमऋतं व्यवहारतः प्रतिपद्यन्तेन तु सन्तमर्थम् ॥ ....-'अग्ने नक्षत्रमजरमा सूर्य रोहयो दिवि । दधज्योतिर्जनेभ्यः॥१॥'
(ऋ. ८ अ. ८ अ. १४ व.) २-'प्रजाह तिस्रो अत्यायमीयुन्य न्या अर्कमभितो विविश्रे। बृहद्ध तस्थौ भुवनेष्वन्तः पर्वमानो हरित आ विवेश ॥'
(ऋ. ६ अ. . अ. ८ व.) ३-'इदं श्रेष्टं ज्योतिष ज्योतिरुत्तमं विश्वजिनजिदुच्यते बृहत् । विश्वभ्राह भ्राजो महिसूर्यो दृश उरु पप्रथे सहु ओजो अच्युतम् ॥'
(ऋ. ८ अ. ८ अ. २८ व.) ४-'एषो ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भ अन्तः । स एष जातः स जनिप्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥'
(यजु. ३२ अ. ३ क. ४ मं.) ५-'एक एवाग्निबहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः । एकैवोषाः सर्वमिदं विभात्येकं वा इदं विभूव सर्वम् ॥'
(ऋ. ६ अ. ४ अ. २९ व.) -'सोमः पूषा च चेततुर्विश्वासां सक्षितीनाम् । देवत्रा रथ्योहिता ॥
(मा. २ प्र. २ अ. ६६.) . -'अहं परम्सादाम वस्ताद, यमन्तरिक्षं तदु मे मिताभूत् ।।
अहं सूर्यमुभयसो ददर्श अई देयाना परमं गुहा यन् ॥'