SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ५ च वर्णितं दृश्यते । अत्र कतिचिच्छन्दःशास्त्रेऽनुक्तानामपि वृत्तानां लक्षणानि समुपलभ्यन्ते । तानि चास्मदीयटिप्पण्युक्तलक्षणैर्गतान्येव । वैदिकछन्दसां लक्षगानि तु नात्र वर्णितानि । इदं पैङ्गलीयाच्छाखादुत्तरकालिकमेव, 'तावदर्भे तद्रुणितं द्विद्वर्यूनं तु तदन्ततः । परे पूर्ण परे पूर्ण-' इति तदनुवाददर्शनात् । नारदीयपुराणे पूर्वखण्डे ५७ तमेऽध्याये- 'लौकिकं वैदिकं चापि छन्दो द्विविधमुच्यते ।' इत्युपक्रम्य गणसंज्ञाः, समार्धसमादिलक्षणानि, उक्तादि संज्ञाः, प्रस्तारं च निरूप्य ' इत्येतत्किञ्चिदाख्यातं छन्दसां लक्षणं मुने ! । प्रस्तारोक्तप्रभेदानां नामानन्त्यं प्रजायते ॥ २१ ॥ इत्युपसंहृतम् । अत्र वृत्तानां प्रांतिस्विकलक्षगानि न सन्त्येव । विष्णुधर्मोत्तरे तृतीयखण्डे ३ अध्याये गायत्र्यादिकृत्यन्तं छन्दः सामान्यलक्षणमभिधाय, लघुगुरुविशेषं प्रस्तारं चोक्त्वा 'दियात्रमेतत्कथितं नरेन्द्र ! विस्तारजिज्ञासुरतो मनुष्यः । संसाधयेत्तत्स्वधिया यथावत्सुदुस्तरं विस्तरशो हि वक्तुम् ॥२०॥' इत्युपसंहारः कृतः ॥ एतावन्त एवास्मत्सन्दृष्टा आर्षाश्छन्दोग्रन्थाः । एषु पिङ्गलाचार्यकृतं छन्दःशास्त्रमेव प्रतनतरं प्रमाणभूतं सर्वाङ्गपूर्ण च । अथ कोऽयं पिङ्गलनागः ? इति पर्यनुयोगे महाभारते जैमिनीये सर्पसत्रे दग्धेषु नागेषु कश्चित्पिङ्गलो दृश्यते - ' निष्टानको हेमगुहो नहुषः पिङ्गलनागः पिङ्गलस्तथा । ' ( आदि. ३५. ९ ) इति । नासौ छन्दःशातस्य कालश्व | स्त्रप्रणेता भवितुमर्हति, मुनित्वाभावात्, अस्यान्यथैव मरणश्रवणाच्च । किन्तु मात्स्येऽङ्गिरस्तु 'बोधिर्नगः सौगमाक्षिंक्षीरयोरिकिरेव च । ' ( १९६. ६ ) इति श्रुतस्य नगस्य पुत्रः; तत्रैव 'ज्ञात्वायनो हरिर्वाश्यः पैङ्गलश्च तथैव च । ( १९६. ३२ ) इति श्रुतस्य पैङ्गलस्य पिता चायं पिङ्गलनागो भविष्यतीत्यस्माकं सम्भावना । एनं फणित्वेन वर्णयन्तस्तु नागशब्देन प्रतारिता एवेति मन्यामहे । एतेन महाभाष्यकारं पतञ्जलिमेव पिङ्गलापरनामधेयमाचक्षाणा अपि व्याख्याताः । किञ्च महाभाष्ये नवाह्निके 'पैङ्गलकाण्व' ( आह्नि. ९ सू. ७३) शब्ददशैनात्, भाष्यात्प्राचीनायामृग्वेद सर्वानुक्रमण्यां छन्दः शास्त्रीयसूत्रानुवादस्योपदर्शितत्वाच्च पिङ्गलस्य महाभाष्यकारात्पतञ्जलेः प्राचीनत्वं व्यक्ततरम् । 'वामनपुराणे प्रातःस्मरणीयेषु - ' सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च । ( १४. १५ ) इति नामसङ्कीर्तनं प्रायोऽस्यैव भविष्यति, आसुरिसाहचर्यात् । स्कान्दे काशीखण्डे च- 'गणेन पिङ्गलाख्येन पिङ्गलेशाख्यसंज्ञितम् । लिङ्गं प्रतिष्ठितं शम्भोः कपर्दीशादुदग्दिशि ॥ ( ५५. २ ) इति शिवलिङ्गप्रतिष्ठापकत्वेनोपवर्णितः पिङ्गलोऽयमेव भवितुमर्हति अस्य 'शिवप्रसादाद्विशुद्धमति' स्वस्योक्तत्वात् । सर्वानुक्रमटीकायां षड्गुरुशिष्यस्तु सूत्रयते हि भगवता पिङ्गलेन पाणिन्यनुजेन'
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy