SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अथ पिङ्गलाचार्यादूर्ध्वकालिकत्वेनाध्यवसितान् कांश्चिदार्षान् ग्रन्थानालोचयामः । तत्र शौनकीये प्रातिशाख्येऽन्त्यैः षोडशादिभिस्तिभिः पिङ्गलाचार्यादुत्तर- पटलैवैदिकच्छन्दसां लक्षणानि निरूपितानि । शौनकालिकाच्छन्दो- कश्च नितान्तं प्राचीन इति विमर्शकः । परं वयमिमं ग्रन्थकाराः। पिङ्गलादूर्ध्वतनं मन्यामहे । यतः प्रातिशाख्ये छन्दःशास्त्रा पेक्षया बहवच्छन्दसां सूक्ष्मभेदा लक्षिता दृश्यन्ते । न च तद्विषय एव शास्त्रे तदनिरूपणं सङ्गच्छते, विना तत्पूर्वभावित्वात् । अस्ति चान्यदपि गमकं यच्छन्दःशास्त्रे न्यङ्कुसारिण्याः 'स्कन्धोनीवी क्रौष्टुकेः । उरोबृहती यास्कस्य' (३. २९-३०) इत्याचार्यनामग्रहणपूर्वकं संज्ञाद्वयं प्रादर्शि, प्रातिशाख्ये तु '-न्यङ्कुसारिणी । स्कन्धोग्रीव्युरोबृहती त्रेधैनां प्रतिजानते ॥' (१६. ४३) इति नामग्रहणनैरपेक्ष्येणैव । तेन छन्दःशास्त्रस्य प्राचीनतावचनेनैव सिद्ध्यति । किञ्च दृश्यते प्रातिशाख्ये 'यजुषां षट् । साम्नां द्विः । ऋचा निः' (२. ६-८) इति छन्दःसूत्राणामनुवाद इव, 'यजुषां षडचां त्रिःषट् साम्नां द्वादश सम्पदि ।' (१६. १२) इति । तस्मात्प्रातिशाख्यादपि छन्दःशास्त्रमेव प्राचीनम् । प्रातिशाख्ये दृष्टाश्छन्दोविशेषास्तु विशल्यकरण्यां. सङ्ग्रहीता एवास्माभिरिति नान पुनरुच्यन्ते। कात्यायनप्रणीतं ऋक्सर्वानुक्रमसूत्रं तु प्रायः प्रातिशाख्यानुसारीति तस्य ततोऽर्वाचीनस्वं निर्विवादम् । छन्दःशास्त्रादर्वाक्तनत्वे त्वस्यास्ति स्फुटतरं प्रमाणं यत् छन्दःशास्त्रीययोः 'न्यूनाधिकेनैकेन निगुरिजौ । द्वाभ्यां विराट्स्वराजौ' (छं. ३. ५९-६० सर्वा० ३. ४-५) इति सूत्रयोरविकलयोरनुवादः । सर्वानुक्रमे च 'अर्थ च्छन्दांसि' इत्युपक्रम्य तृतीयायेकादशान्तैः खण्डैर्ऋग्वेदेऽपेक्षितानां छन्दसां लक्षणान्युक्तानि । अस्माभिस्तु तानि सर्वाणि टिप्पण्यां सोदाहरणानि प्रदर्शितान्येव । शुक्लयजुःसर्वानुक्रमसूत्रं तु छन्दोविषये न ऋक्सर्वानुक्रमसूत्रान्मात्रयापि भिद्यते, अतस्तद्विषये न किञ्चिद्वक्तव्यमस्ति । अग्निपुराणे ३२८ तममध्यायमारभ्य ३३५ तमपर्यन्तमष्टभिरध्यायैः क्रमेण परिभाषा, दैव्यादिसंज्ञाः, पादाधिकारः, उत्कृत्यादीनि च्छन्दांसि-आर्यादिमात्रावृत्तानि च, विषमवृत्तानि, अर्धसमवृत्तानि, समवृत्तानि, प्रस्तारादि, इति निरूपितमुपलभ्यते । एतच्च सर्वमपि पिङ्गलोक्तस्य छन्दःशास्त्रस्यानुवादरूपमेव । तथा च प्रतिज्ञातं तन्त्र-'छन्दो वक्ष्ये मूलशब्दैः पिङ्गलोक्तं यथाक्रमम् । ( ३२०-१) इति । छन्दःशास्ने शुद्धांशुद्धपाठपर्यालोचने प्रक्षिप्ताद्यवधारणे च सुतरामुपयुज्यत एतत् । गराउपुराणे पूर्वखण्डे २०७ तममारभ्य २१२ पर्यन्तं षड्भिरध्यायः क्रमेण परिभाषा, मात्रावृत्तानि, समवृत्तानि, अर्धसमवृत्तानि, विषमवृत्तानि, प्रस्वारादि
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy