________________
श्रीः
प्रस्तावना ।
किं तावच्छन्दसां तत्त्वम् ? का विभक्तिः ? किं लक्षणम् ? किं प्रयोजनम् ? इत्यादयश्छन्दःशास्त्रसम्बद्धा विषयास्तावत् श्रीमधुसूदनशर्म महानुभावैश्छन्दः समीक्षायां सम्यङ् न्यरूरुपिषतेति तेषामेवात्र सङ्ग्रहोऽकारि ।
अथ तदेतच्छन्दःशास्त्रं कदा प्रादुरासेति विमृश्यते ।
तत्र तावन्महनीयमहिनोऽपौरुषेयाद्वेदराशेर्गायत्र्यादिच्छन्दसां यज्ञकर्मणि विनियुक्तत्वात्तज्ज्ञानार्थमादौ ब्राह्मणग्रन्थेषु तेषां पादसङ्ख्या तत्र प्रविभक्ताक्षरसङ्ख्या च निर्दिश्यते । पादसङ्ख्यामात्रेणाक्षरसङ्ख्यामात्रेण च वैदिछन्दःशास्त्रस्य कच्छन्दसां गायत्र्यादिव्यवहारः । तत्र किञ्चिन्यूनाधिकतायामपि मूलम् न च्छन्दोहानिर्भवति । तदुक्तम्- 'न वा एकेनाक्षरेण च्छन्दांसि वियन्ति, न द्वाभ्याम् ' ( ऐ. ला. १. ६) 'न होकेनाक्षरेणान्यच्छन्दो भवति, न द्वाभ्याम्' (सां. बा. २७. १ ) इति । ततो ब्राह्मणग्रन्थेष्वितस्ततः पर्यस्तान् विध्यर्थवादादीन् समाहृत्य सारल्येन यज्ञकर्माणि सूत्रयितुं प्रवृत्तेषु भगवदाश्वलायनसाङ्ख्यायनापस्तम्बादिषु तदुपयोगिनां छन्दसां लक्षणान्यपि ब्राह्मणारण्यकादिभ्यो निष्कृष्य पृथक्कथनीयान्यभवन् । तानि चैवं सूत्रयांचकार तत्र भवान् सायायनः
-
'त्रिपदा गायत्री ( १ ) उष्णिक् ( २ ) पुर उष्णिकू ( ३ ) ककुप् ( ४ ) विराट् च पूर्वा (५) चतुष्पदोत्तरपदा विराट् ( ६ ) बृहती ( ७ ) सतो बृहती ( ८ ) जगती ( ९ ) अनुष्टुप् (१०) त्रिष्टुप् च (११) पच पङ्क्तेः ( १२ ) षट्सप्तेत्यतिच्छन्दसाम् (१३ ) ( स हि शर्धो न मारुत' मित्यष्टौ (१४) द्वौ द्विपदायाः (१५) तेऽष्टाक्षराः प्रायेण (१६) द्वादशाक्षरा जगत्याः ( १७ ) तृतीयौ चोणिग्वृहत्योः ( १८ ) सतोबृहत्याश्च प्रथमतृतीयौ (१९) मध्यमः ककुभः ( २० ) प्रथमः पुर उष्णिहः (२१) एकादशाक्षरा त्रिष्टुब्विराजो: ( २२ ) उत्तरस्या दशाक्षरः ( २३ ) तामक्षरपङ्क्तिरित्यप्याचक्षते (२४) पञ्चभिः पञ्चाक्षरैः पदपङ्क्तिः (२५) पळप्यष्टाक्षरा जगत्याः ( २६ ) एकेन द्वाभ्यामित्यूनके निचत् ( २० ) अतिरिक्ते भुरिक् ( २८ ) सम्पाद्य पादभागेनाहार्यस्यर्चः सम्मितास्तस्य पादभागेन सम्पन्नाः (२९) गायत्र्युष्णिगनुष्टुपूवृहत्यो पङ्क्तिश्च त्रिष्टुप् जगत्यावित्यानुपूर्व्यं छन्दसां चतुर्विंशत्यक्षरादीनां चतुरुत्तराणाम् (३०) ( सां. श्रौ.सू. ७. २७)
छ० ७ *