SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ६५ प्राधान्याद् विभक्तः प्रागेव छन्दोनियताक्षरे यतिमासादयेदित्यर्थमपेक्षमाणस्य श्रोतुरमनोरञ्जनं स्यात् ॥ १॥ अथार्थबुबोधयिषयैव प्रवर्तमानस्तु नूनमर्थानुरोधेनैव छन्दोवृत्तं प्रयोजयन्नार्थिकयतिप्राधान्याद् विभक्त्यन्ते यतिमासादयेदिति छन्दोयाथात्म्यमपेक्षमाणस्य श्रोतुरमनोरजनं स्यात् ॥ २ ॥ सेयमनवक्तृप्तिः । अतः स्थाने कृतं विभक्तिकृतपदे यतिप्रतिषेधशास्त्रमिति दिक् ॥ इति यतिदोषवादः। अथ पञ्चाङ्गतावाद:ननु यदि सर्वस्यैवार्थजातस्यैकान्ततश्छन्दोबद्धत्वं स्वीक्रियते, तत्तर्हि नूनमिदं छन्दोऽपि छन्दोबद्धं स्यात् ; स तर्हि पद्यच्छन्दोवेदः किमिति पञ्चाङ्ग एवोच्यते? न च्छन्दसा घडङ्गः प्रतिविधीयते?। अथ-यदि नेदं छन्दश्छन्दोबद्धमिति मन्यसे, तत्तर्हि छन्दसः सर्वानुगतत्वप्रतिज्ञाहानिरिति चेत् ,-सत्यम् । यथेदं ब्रह्मणो व्यापकत्वं मन्यन्ते तथेदं द्रष्टव्यम् । यदि नामास्य ब्रह्मणो ब्रह्मवृत्तित्वमाख्यायते तत्तर्हि द्वैतं भवति। अद्वितीयं तु ब्रह्मेत्याचक्षते ब्रह्मविदः । यदि तु ब्रह्मवृत्तित्वं नास्तीत्यभिमन्यते, तत्तर्हि तस्य व्यापकत्वप्रतिज्ञाहानिः प्रसज्यते । अथ यद्यनवस्थादोषात् तेजःशब्दप्रमाणादिवदस्य ब्रह्मणः खरूपेणावभासमानस्य नेतरापेक्षेत्युच्यते, तत्तर्हि तुल्यं छन्दोवेदेऽपि । स्वरूपेणैव छन्दसां छन्दोबद्धत्वादितरच्छन्दोऽनपेक्षणात् । परे त्वाहुः-भवति नूनं गत्यध्वपरिच्छित्तिर्नाम छन्दसां छन्दो लिप्यध्वपरिच्छित्तश्छन्दोलिपिच्छन्दस्त्ववत् । सा चाध्वपरिच्छित्तिः प्रत्ययो भवति । यया परिच्छिन्नानामनेकेषामायतनसाम्येन प्रवर्तनं दृश्यते। आयतनमेव तज्जातीयेतरायतनसाम्यापेक्षया अध्वपरिच्छित्तिरित्युच्यते । अवश्यं हि सर्वस्याप्येतस्य वस्तुजातस्य स्वरूपसंपादनाद्यन्योद्देशेन प्रवर्तमानस्य कश्चिदध्वा भवति । तेनाध्वना प्रक्रममाणस्य सौकर्य सौन्दर्य चानुभूयते । खमार्गात् प्रच्यवमानस्य च तस्य क्लिष्टत्वं कुरूपत्वं च जायते । तस्मादयमध्वयोगश्छन्दसां छन्दः । नन्वेवं तर्हि पद्यच्छन्दोवेदस्य षड्भिरङ्गर्भवितव्यमिति चेत् ,-सत्यम् । अस्ति षडङ्गो वेदत्वात् । वेदस्य षडङ्गत्वनियमात् । खल्पविषयत्वात्तु नायमध्वयोग: पार्थक्येनेह निरूपित इति द्रष्टव्यम् ॥ इति छन्दोवेदपञ्चाङ्गतावादः। अब छन्दोविज्ञानसार्थकतावादः। इदं तावच्छन्दोविज्ञानशास्त्रमनारम्भणीयमनर्थकत्वात् । चतुरयं हि शास्त्रमा। रभ्यते-अविज्ञातार्यशापनार्य, हेयार्थनिरसनार्य सामर्थ्यम्-अशेषोद्रेकार्थम् , इतरवेदोपकारार्थ चेति । तत्रेदं छन्दोविज्ञानशास्त्र नैषामन्यतमं. कमप्यर्थ संसाधयितुमीष्टे- ..
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy