________________
उान्दसिकाः । स्थाननियमश्च वर्णमात्रान्यतरनिबन्धनो न तु विभक्तिपोपियनिबन्धनः संभवति । विभक्त्यादीनां वैयाकरणपदार्थत्वेन छन्दःशरीरे तदप्रवेशेन च छन्दःखरूपसिद्धौ तदनपेक्षणान् । ऊनविंशत्यक्षरपादे शार्दूलविक्रीडितद्वादशाक्षरस्य यांतमत्त्वमन्वाख्यायते। तदिदं यदि त्रयोदशाक्षरे कृनं स्यात्तत्तहि युक्तो वक्तुं दोषः । द्वादशाक्षरे तु कृतया यत्या छन्दःखरूपसंपादने विभक्तिपूर्वत्वमग्रयोजकमप्रतिबन्धकं चेति । न च व्याकरणानुसारेणाप्ययं दोषः संभवति । तत्र विभक्तेः प्राग यतिकरणप्रतिषेधाननुशासनात् । नापि व्युत्पत्तिशास्त्रानुमतोऽयं दोषः । नत्र पदयोः खप्रयोज्यपदार्थोपस्थित्यवहितोत्तरजायमानशाब्दबोधे यद्यप्याकालायोग्यतेल्लादिवदासत्तेः कारणत्वमन्वाख्यायते, यतिश्चासत्तिप्रतिबन्धिनी, तथापि नावना शाब्दबोधप्रतिबन्धः स्यात् , न छन्दसः खरूपहानिः । तत्र यतेरेिष्टत्वात् । अथवा नेयं यतिरासत्तिविरोधिनी, एतावद्विलम्बेऽप्यर्थावबोधप्रतिबाधादर्शनात् । इतरथा कुत्रापि यतिमता वृत्तेनार्थावगतिर्न स्यादासत्तिप्रतिबन्धात् । अत एव परमसन्निकर्षात्मकमहितानिबन्धनं सन्धिकार्यमपि न विरुध्यते । तस्मादस्त्येव नामविभक्त्यात्मकयोः 'योर्यत्यवरुद्धयोरप्यासत्तिरर्थबोधोपयोगिनीति न व्युत्पत्तिशास्त्रविरोधः । अथाप्रयुदोषदुष्टत्वं स्वादिति चेत्तदपि न।
'यस्मात् क्षुब्धप्रकृतिपुरुषाभ्यां महानस्य गर्भऽहकारोऽभूत् खकशिखिजलोर्व्यस्ततः संहवेश्च । ब्रह्माण्डं यजठरगमहीपृष्टनिष्ठाद् विरश्वे
विश्वं शश्वजयति परमं ब्रह्म तत्तत्त्वमाद्यम् ॥ १॥' इत्यादिवभियुक्तकर्तृकप्रयुक्तिविषयतादर्शनात् । तस्माद्विभक्तिकृतपदे यतिप्रतिषेधो निर्मूल इति चेत्, अत्रोच्यते
इह हि छन्दोवृत्तजाते मात्रावर्णान्यतरनियतस्थाने यतिः कर्तव्या इत्येको विधिः । सा च यति मविभकिमध्यवर्तिनी यथा स्यात्तथा विभक्तिकृतपदं न प्रयोज्यमित्यपरो विधिः । तत्र छन्दःखरूपं खाभिव्यञ्जकवर्णपरम्परामात्रसापेक्षं यद्यपि तत्तद्वर्गसमटेरर्थ नापेक्षत इति पूर्वेणैव विधिना छन्दःसिद्धिः कृतार्था भवति, तथापि सार्थकपदविन्यासेन छन्दःखरूपं सम्मिपादयिषून् प्रत्ययमपरो विधिरुपतिष्ठेत यत्यवरुद्धं विभक्तिकृतपदं न प्रयोज्यमिति । अयं भावः-पदं द्विविधं यतिकृतमर्थकृतं च। तदुभयविधमेवानवच्छिन्नवर्णपरम्परासापेक्षमित्यवश्यं यतियोग्यस्थाने विभक्तिकृतपदप्रयोगे विप्रतिषेधः प्राप्नोति। __ अर्थानुरोधिनी हि पदयतिर्विभक्त्यन्ते स्थानं लभत इत्यवश्यं विभक्तेः प्रागनवट. दमपेक्षते। अथ छन्दोऽनुरोधिनी पदयतिस्तत्र विभक्तेः प्रागेव स्थानं लभत इत्यवः विभक्तिविभक्तिमतोरनवच्छेदं प्रतिषेधति । तत्रेदं द्वैधमिव स्यात्-अर्थगतिमन. क्षमाणो प्रयोजयिता छन्दःस्टम्पमा :शयिषया प्रवर्तमानोऽवयं छान्दा पनि