SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ५४ / चतुर्विंशत्यक्षरानवच्छिन्नतया गायत्रीत्वानापत्तेः । ननु — 'न्यूनाधिकेनैकेन निघृद्धरिजी' 'धाभ्यां विराटखराजौ,' 'पादपूरणार्थं तु क्षैप्रसंयोगेकाक्षरीभावान् व्यूहेदि ति ( सर्वा. परि.) सूत्रोपदिष्टया व्यूहमर्यादया चतुर्विंशत्यक्षरकत्वं सेत्स्यतीति चेत् — सत्यम् ; एवमपि प्राजापत्यासुरीदैव्यादीनां गायत्रीविशेषाणां गायत्रीत्वासिद्धिस्तदवस्था स्यात् । तत्र व्यूहमर्यादयापि चतुर्विंशत्यक्षरावच्छिन्नत्वासिद्धेः । न च - चतुर्विंशत्यक्षरावच्छिन्नत्वमाषगयत्रीछन्दस्त्वमष्टाक्षरावच्छिन्नत्वं प्राजापत्यागायत्रीत्वं पञ्चदशाक्षरावच्छिन्नत्वमासुरीगायत्रीत्वमित्येवमष्टानामपि गायत्रीविधानां प्रातिविकलक्षणानि भविष्यन्तीति वाच्यम्; चतुर्विंशत्यक्षरावच्छिन्नत्वादीनां विभाजकतावच्छेदकत्वसिद्धावपि विभाज्यतावच्छेदकस्य गायत्रीत्वस्याद्य यावदसिद्ध्या तासामष्टानामपि विधानां गायत्रीविभाजकत्वासिद्धेः । छन्दस्त्वात्मकविभाज्यतावच्छेदकप्रसिद्धावपि विभाजकतावच्छेदकधर्मा प्रसिद्ध्या सप्तच्छन्दांसि - इति सर्ववेदे प्रसिद्धविभागानुपपत्तेश्च । तस्मादवश्यं गायत्रीसामान्यलक्षणं किञ्चिदपेक्षणीयमिति चेत् — अस्त्वेवम् । सर्वच्छन्दः कनिष्ठच्छन्दस्त्वं गायत्रीत्वमित्येवं तावदभिसंधास्यामः । गायत्री पुरोगमानि हि चतुरुत्तराणि सर्वाणि च्छन्दांसि भवन्ति । तत्र गायत्र्याः सर्वच्छन्दोऽपेक्षया सप्ताक्षरघटितत्वात्कनिष्ठत्वं शक्यं वक्तुम् । नन्वेवं सत्यनादिष्टछन्दसामुक्तात्युक्तामध्याप्रतिष्ठासुप्रतिष्ठानां सर्वच्छन्दोऽपेक्षया स्वल्पाक्षरत्वाद् गायत्रीत्वमतिप्रसज्येत! । वेदे गायत्र्यादीनामेव छन्दसां सुप्रसिद्धेस्तेषां छन्दस्त्वमेव नास्तीति तु नापाद्यम् । ताण्ड्यश्रुतौ – “चतुरुत्तरैरेव छन्दोभिरेतव्य" मित्युक्त्वा - "एकां गायत्री काहमुपेयुरेकामुष्णिहमे काहमेका मनुष्टुभमेकाहं- वृहत्या पश्चमास ईयुः पङ्क्तिमेकाहमुपेयुः त्रिष्टुभा षष्ठं मासमीयुः – वो विषुवान् भवितेति जगतीमुपेयुः” इति सूत्रेण गायत्र्यादिभिरहः साधनोक्त्या गायत्र्या अपि चतुरुत्तरच्छन्दस्त्वप्रतिपादनाद्विंशत्यक्षरायाः सुप्रतिष्ठायार छन्दस्त्वानभ्युपगमे गायत्र्याश्चतुरुत्तरत्वानुपपत्तेः । तथा च तेष्वतिप्रसक्तेर्नेदं गायत्रीलक्षणं साधीय इति चेत्- -न । तत्र गायत्रीत्वस्येष्टापत्तेः । तदुक्तं वेदार्थदीपिकायाम् “उक्तादिपञ्चकं कैश्चिद् गायत्रीत्येव कथ्यते " इति । तथा चेदं लक्षणं निर्दोषमिति चेत् न । सर्वच्छन्दः कनिष्ठच्छन्दस्त्वमित्र हि कान्येतानि सर्वाणि छन्दांसि ? किं तावद् गायत्र्युष्णिगनुष्टुवादीनि सप्तच्छन्दांसि, सप्तातिच्छन्दांसि, सप्तकृतिच्छन्दांसी येतावन्ति सर्वाणि च्छन्दांसि विवक्षितानि ? आहोस्त्रिद् गायत्रीत्वजगतीत्वादिकमनपेक्ष्यैव मात्राक्षरसंख्यया नियता वाचो विवक्ष्यन्ते ? तत्र न तावदाद्यः, आषगायत्र्यपेक्षया प्राजापत्योष्णिहः स्वल्पाक्षरतया गायत्री - त्वापत्तेः । तदपेक्षयाधिकाक्षराया आषगायत्र्या गायत्रीत्वानापत्तेश्च । न चार्षीभ्य उष्णिगादिभ्यः स्वल्पाक्षराया आधगायत्रीत्वं प्राजापत्योष्णिगाद्यपेक्षया चाल्पाक्षरायाः प्राजापत्यागायत्रीत्वमित्येवं वक्ष्याम इति वाच्यम् । आसुरीभ्य उष्णिगादिभ्योऽनल्पा‘'राया एवासुरीगायत्रीत्वप्रसिद्ध्या तावताऽप्यनिर्वाहात् । गायत्रीत्वोष्णिक्त्वजगती
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy