SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रसज्यते । अनुष्टुविशेषाणां तु पथ्यावऋविपुलादीनां वैदिकत्वेऽपि विषमत्वसमत्वार्धसमत्वात्मकभेदत्रयविभक्तेषूभयसाधारणत्वेन प्रतिपन्नेषु च्छन्दोजातेष्वन्तर्भावालौकिको- . पचारो न विरुध्यते । तस्मादुभयथापीदमुपपद्यते-वेदमात्रे प्रयोगोपलब्ध्या वैदिकानां वैदिकत्वमिहानूद्यते, वैदिकसमाख्यया लोके प्रयोगप्राप्तिश्च तेषां प्रतिविधीयत इति । नन्वेवमुभयसाधारणानां त्रेधाप्रतिपत्तौ पथ्यावक्रवदितरेषामपि शुद्धवैदिकत्वेनाभिप्रेतानां गायत्र्यादीनां विषमत्वेनोपसंग्रहाल्लौकिकत्वप्रसक्तिरिति चेत्-मैवम् । छन्दोव्याकृतिग्रन्थे "तत्रादौ विषमं व्याख्यास्यामः । स चतुर्धा-वकं पदचतुरूर्ध्वमुद्गतिकोपस्थितप्रचुपितं च" इति सूत्राभ्यां परिगणनस्य वक्ष्यमाणतया तदितरेषां विषमाणामुभयसाधा- . रणत्वनिराकरणात् । तस्मात् परिगणितःतिरिक्तानां विषमाणां वेदमात्र प्रयोगोपलब्ध्या सिद्धमेकान्तवैदिकत्वमिति निष्कर्षः ॥ इति वैदिकान्यत्ववादः । छन्दोलक्षणवादः। ननु गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्षित्रिष्टुब्जगत्यादयश्छन्दोविशेषा आम्नायन्ते । तत्र , किं तावदेषां गायत्र्यादीनां गायत्रीत्वादिकम् ? इत्युपतिष्ठते जिज्ञासा । न तावद डक्षरपादैश्चतुष्पदीत्वमष्टाक्षरपादेत्रिपदीत्वं वा गायत्रीत्वं संभवति । त्रिपः . वेन चतुष्पात्त्वेन वान्योन्यव्यभिचारात् । अथ षडक्षरपादत्वं चतुष्पाद्गायत्री, अष्टाक्षरपादत्वं त्रिपाद्गायत्रीत्वमित्येवं भेदेन लक्षणं करिष्यते । दृश्यते हि त्रिपाद्गायत्र्या वेदमात्रगोचरत्वमथान्यस्याश्चतुष्पद्या लोकवेदोभयसाधारणत्वमित्यनयोर्भेदप्रतिपत्तेरिति चेत्-न। गायत्रीसामान्यलक्षणस्य जिज्ञास्यत्वात् । नाप्येतदन्यतरत्वं गायत्रीत्वमित्यनेनापि निर्वाहः । पादनिवृतः सप्ताक्षरपादेत्रिपाद्गायत्रीत्वेन, पदपतेः पञ्चाक्षरपादैः पञ्चपाद्गायत्रीत्वेनापि सुप्रसिद्धेः । किञ्च-षडक्षरकेतरपादाभावसमानाधिकरणं षडक्षरपादत्वं लक्षणमपेक्ष्यते? आहोखित् षडक्षरपादसम्बन्धमात्रम् । नाद्यः; अतिनिवृत्-प्रतिष्ठा-ह्रसीयसी-वर्धमानोष्णिग्गर्भादीनां गायत्रीत्वानापत्तेः ।, नान्त्यः; 'एकादशिनोः परः षट्कस्तनुशिराः,' 'मध्ये चेत् पिपीलिकमध्येति' कात्यायनसूत्राभ्यामुष्णिक्त्वेन प्रतिपन्नयोरपि तनुशिरः-पिपीलिकमध्ययोगायत्रीत्वापत्तेः । तस्मात् पादव्यवस्थायामव्यवस्थितत्वान्न पादव्यवस्थाघटितं लक्षणं व्यवतिष्ठत इति स्थितम् । अस्तु तर्हि चतुर्विशत्यक्षरावच्छिन्नत्वं गायत्रीछन्दस्त्वमिति चेत्तदपि नः, "नाक्षराच्छन्दो व्येत्येकस्मान्न द्वाभ्याम्" इति शतपथश्रुतौ ( 1१।२।२२) "नीकेनाक्षरेणान्यच्छन्दो भवति नो द्वाभ्याम्" इति कौषीतकिश्रुतौ ( २७ अध्या० १) 'न वा एकेनाक्षरेण छन्दांसि वियन्ति नं द्वाभ्यामिति ऐतरेयश्रुती ( ११११६) तथान्यत्रापि चेकद्विवर्णोनातिरेकेऽपि गायत्र्यादिच्छन्दोव्याघातप्रत्याख्यानस्य भगसामेडनात् तथाविधानां श्रुतिप्रामाण्यसिद्धानां निचद्धरिगादीनां गायत्रीविशेषा"
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy