________________
५२
उच्यते--त्रिविधः खल्वपि छन्दोविभागः प्रयोगभेदात् प्रतिपाद्यते - मात्राच्छन्दः, अक्षरच्छन्दः क्रमच्छन्दश्चेति । यत्र मात्रासमष्टिसंख्या न च्यवते, अथाक्षरसंख्या गुरुलघुसंनिवेशक्रमश्च पर्यायेषु विलक्षणतामेति; तत्र मात्राणां प्रगृह्यतया मात्राच्छन्दो`व्यवहारः । यथौपच्छन्दसिकादिषु, यथा वा शिखामालादिषु । अथ यत्राक्षरसमष्टिसंख्या न च्यवते, मात्रासंख्या गुरुलघुसंनिवेशक्रमश्च पर्यायेषु विलक्षणतामेतिः तत्राक्षराणां प्रगृह्यतयाऽक्षरच्छन्दोव्यवहारः यथा न्यङ्कुसारिणी विष्टारवृहतीविष्टारपङ्कयादिषु । एवं यत्र क्रमस्यैव प्रगृह्यतया गुरुलघुसंनिवेशो नियतपौर्वापर्यकस्तत्र सर्वेष्वेव पर्यायेषु नाक्षरसंख्या च्यवते, नापि वा मात्रासंख्या । तस्यैतस्य क्रमच्छन्दस्त्वं भवति, यथा सिंहोयतामन्दाक्रान्ताशार्दूलविक्रीडितादिषु । तदित्थं भूयसातिरेकेण सिद्धेऽपि त्रैविध्ये मात्राच्छन्दोभिर्वैदिकव्यवहारादर्शनाल्लोके च भूयसा व्यवहारात्तेषां लौकिकत्वोपचारः । अक्षरच्छन्दोभिश्च लौकिकानामज्जुपचाराद्यज्ञे वेदे चानुपदं प्रातिखिकभावेन तदुपयोगात्तेषां वैदिकत्वोपचारः। अथ क्रमच्छन्दसां नियतस्थानावस्थितगुरुलध्वक्षरनिबन्धनतया अक्षरछन्दस्त्वानतिरेकालोके तथैव चिरादुपचाराच्च वैदिकसाधर्म्याद्वैदिकत्वम्, अथ मात्राच्छन्दोवलोकमात्रे तत्प्रयोगदर्शनालौकिकसाधर्म्याल्लौकिकत्वम्, इत्यवमेषामुभयसाधार गत्वं पश्यन्ति समीक्षादक्षाः । अत एव पिङ्गलादिप्रोक्तेषु छन्दोविचित्यादिग्रन्थेषु वैदिकछन्दोऽनुदर्शनतया प्रतिपन्नेषु शुद्धवैदिकच्छन्दोऽनुशासनानन्तरम् अथार्वाचीनप्रोक्तेषु छन्दोभाषाप्राकृतपैङ्गलादिग्रन्थेषु लौकिकच्छन्दोऽनुदर्शनतया प्रतिपन्नेषु शुद्धलौकिकच्छन्दोऽभुशासनानन्तरमुभयत्रापि कमच्छन्दसामनुविधानमुपलभ्यत इति द्रष्टव्यम् ।
यद्यप्यत्र मात्राच्छन्दांस्यैौपच्छन्दसिकादीनि मात्रागणच्छन्दांस्यार्यादीनि, अक्षरच्छन्दांसि न्यसारिण्यादीनि तथाक्षरगणच्छन्दांसि सिंहोद्धतादीनि इत्येवं चतुर्थ विभाजयितुमुचितं तथैव तत्प्रतिपत्तेः; तथापि प्रकृते वैदिकत्व - लौकिकत्व - साधारणत्वविवेकप्रसङ्गे तदवच्छेदकतया अक्षरछन्दस्त्व - मात्राच्छन्दस्व - क्रमच्छन्दस्त्ववर्माणां विवक्षणादित्थं विभाग इत्यवधेयम् ।
>
नन्वेतावता प्रयोगसंप्रदायस्थितिरेवानुरुध्यते ? । आहोस्विद् वैदिकसमाख्याबलाद्विभ्यन्तरमुपस्थाप्यते 'एषां वेद एव प्रयोगः कर्तव्यो न तु लोकेऽपीति । यद्युच्यते वेदमात्रे प्रयोगोपलब्ध्या वैदिकत्वमेषामनूद्यते' यदि वा वैदिकसमाख्यया लोके प्रयोगप्राप्तिः प्रतिविधीयते । उभयथापि नोपपद्यते । वैदिकाक्षरच्छन्दः प्रतिपन्नानामनुष्टुप् विशेषाणां पथ्यावऋविपुलादीनां वेदापेक्षयापि लोके बहुलोपचारस्य दृश्यमानत्वात् इतरेषां च त्रिष्टुप्जगतीभेदानां रामायणमहाभारतभागवतादिषु प्रायेण प्रयुज्यमानत्वात् । तस्मान्मात्राच्छन्दःक्रमच्छन्दसोरेकान्त लौकिकत्वेऽक्षर छन्दसस्तु लोकवेदोभयसाधारगन्व संसिद्धेऽपि शुद्धवैदिकविषयता सर्वथा दूरपरास्तव । अत्रोच्यते - पुराणेतिहासा निषु तावत् प्रबन्धवाचकानां पवित्रतासम्पत्त्युद्देशेन वैदिकच्छायावर्तिष्णुभिर्मुनिभिः आंखान्तरप्रसिद्धा मन्त्रविशेषा एवानूद्यानूद्य पठिता इति नानुवादे लौकिकत्वं