________________
त्वादीनामिदानीं यावदसिद्ध्या तत्त्वेन विभागासंभवादुष्णिगाद्यपेक्षया अल्पाक्षरतस्य गायत्रीपदार्थतावच्छेदकत्वानुपपत्तेश्च । नाप्यन्त्यः, उक्ताया दैवीगायत्र्या वा गायत्रीत्वसिद्धावप्यन्यासां गायत्रीत्वानापत्तेः । तस्मान्नेदं गायत्रीसामान्यलक्षणमिति चेत् ; अस्तु तर्हि गायत्रीपदेन याज्ञिकानां प्रसिद्धिरेव गायत्रीत्वम् , नैवम् ! ज्ञानस्यैव प्रसिद्धिपदार्थत्वाद् । गायत्रीपदप्रकारकज्ञानविशेष्यत्वमेव गायत्रीत्वमेतेनोक्तं भवति, तच्चायुक्तम्-गायत्रीपदनिष्ठसंकेतसम्बन्धावच्छिन्नप्रकारतानिरूपितायाज्ञिकज्ञानीयविशेष्यतावच्छेदकत्वाप्रसिद्धौ तादृशविशेष्यताया उष्णिगादिष्वव्यावर्तमानतया तेषामपि सर्वेषां गायत्रीत्वातिप्रसक्तेः । तस्माद् यदवच्छेदेन गायत्रीपदप्रसिद्धिः, सोऽतिरिक्तः कश्चन धर्मो वक्तव्य इति चेत् अस्तु तर्हि गायत्रीत्वमखण्डोपाधिः; तदवच्छेदेनैव गायत्रीपदप्रसिद्धिरप्यास्तामिति चेत् तुच्छमेतत् । लोकप्रतीतपदार्थके हि विषये पदार्थतावच्छेदकस्याखण्डोपाधित्वेन कथंचिदभ्युपगमेऽपि साम्यधर्माणामखण्डोपाधित्वम्वीकारस्याप्रामाणिकत्वात् । तस्मादसिद्धं खलु गायत्रीत्वमिति चेदुच्यते-चतुर्विंशत्यक्षरावच्छिन्नत्वं गायत्रीत्वमित्येव सिद्धान्तः पक्षः ॥
यस्तु निद्भुरिगादिषु दर्शितो व्यभिचारः स तावदयुक्तः । एकेनाक्षरेण द्वाभ्यां वा न्यूनाधिकताया गायत्रीविकृतिप्रयोजकतया सत्यामपि तस्यां विकृतौ प्रकृतिलक्षणव्याघातासंभवात् । नहि कस्यचिदन्धत्वदोषेण सता प्राणिनश्चक्षुष्मत्त्वलक्षणं व्याहन्यते; न वा लाङ्कलच्छेदाद्विषाणभ्रंशाद्वा सास्नालाङ्गेलककुदखुरविषाणित्वरूपं गोलक्षणमलक्षणं भवति । तस्मात्सिद्धं चतुर्विशत्यक्षरावच्छिन्नत्वमेव गायत्रीत्वम् । अथ यदपि प्राजापत्यामुरीदैव्यादिषु व्यभिचारदर्शनान्नेदं लक्षणमित्याख्यातं, तदप्यत एव प्रत्याख्यातं भवति । तासामप्या|विकृतिरूपत्वानतिरेकात् । तथा हि
यद् गायत्रे अधिगायत्रमाहितं त्रैष्टुभावा त्रैष्टुभं निरतक्षत
यद्वा जगजगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥ १॥ (ऋ.सं. २।३।) इति मन्त्राम्नानादेकस्मिन् छन्दोन्तराधानप्रतिपत्त्या तस्यामेवा गायत्र्यां चतुर्विंशत्यक्षरावच्छिन्नायामेकाक्षरावच्छेदेन दैवीत्वं, पञ्चदशाक्षरावच्छेदेनासुरीत्वम् , अथाष्टाक्षरावच्छेदेन प्राजापत्यात्वमित्येवं विभागभेदात्रैविध्योपचारः । गायत्रीविभागजत्वाचैतासु गायत्रीशब्दो भाक्तः । यद्यपि कौषीतकश्रुतौ मन्त्रोऽयमन्यथा व्याख्यायते यथा
“यद् गायत्रे अधिगायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत ।
यद्वा जगजगत्याहितं पदं य इत् तद्विदुस्ते अमृतत्वमानशुः ॥” इति अथो यदिमा देवता एषु लोकेष्वध्यूढाः,—गायत्रेऽस्मिल्लोके गायत्रोऽयमग्निरभ्यूडः । त्रैष्टुभेऽन्तरिक्षलोके त्रैष्टुभो वायुरध्यूढः । जागतेऽमुष्मिल्लोके जागतोऽसावादित्योऽयूढः" इति । न चैतावता छन्दसि छन्दोऽन्तरसत्ता मन्त्रार्थ उपलभ्यः, तथापि खल्पेन यत्नेनाधिकमर्थमुपदेष्टुमिवाभिवर्तमानानां महर्षीणां बहुविषया हि मन्त्रार्थवादा भवन्ति । तदतो नाभिगम्यमानं प्रमाणान्तरसिद्धमर्थं सर्वथा प्रत्याख्यातुमवकल्पते ।