SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४९ . ताया अपि 'पितुभूतो ने त्यस्याः (१०।१७२।३ ) ऋचश्चतुष्पात्संस्तारपतयुदाहरणत्वमाख्यातं वेदार्थदीपिकायाम् । 'द्वादशाक्षरयोर्मध्ये पादावष्टाक्षरौ यदि । यस्याः संस्तारपतिः स्यात् पितुभृतो न तन्तुमित् ॥' इति । 'द्विर्द्विपदास्त्वृचः समामनन्तीति' (सर्वानुं) सूत्रयता भगवता कात्यायनेनापि द्विपदात्वेनाभिप्रेतानां सर्वासामेव ऋचा शंसनकाले ताभ्यां द्वाभ्यामेव पादाभ्यां छन्दःपूर्तिः, अथाध्ययनकाले तु द्वयोर्द्विपदयोश्चतुर्भिः पादैश्छन्दःपूर्तिरभिप्रेयते। तेन यासां शंसने दशर्चत्वं, तासामेवाध्ययने पुनः पञ्चचत्वमिति सुप्रसिद्धं याज्ञिकानाम् । एवं षड्भिर्गायत्रैर्जगतीकारतया एकमेव महापतिच्छन्द इष्यते, न तु गायत्रीद्वयसमुच्चयः । आनुष्टुभे प्रगाथे तु दशभिर्गायत्रैरनुष्टुभो गायत्रीद्वयस्य च समुच्चयेन तृचः प्रगाथ इष्यते न त्वेवैकं छन्दो नवानुष्टुब्महापतिसमुच्चय इत्यप्यवधेयम् ॥ अथापि च यत्रैवं द्वयोस्त्रया चतुर्णा वाधिकानां वा समुच्चयस्तत्र द्विपात् , त्रिपात् , चतुष्पादित्येवं पादव्यवस्थामिच्छन्ति । सेयं पादव्यवस्थापि नूनं विवक्षाधीनैव । उत्तरोत्तरप्रस्तारखरूपे पूर्वपूर्वप्रस्तारखरूपाणामन्तर्भावाच्चतुष्पद्यामेकपात्त्वस्य, एकपद्यां चतुष्पात्त्वस्य च वक्तुं शक्यत्वात् । यथा द्वाभ्यां पतिभ्यामेका चम्पकमाला भवति, यथा वा प्रमाणिकाध्यर्धेन पञ्चचामरम् , प्रमाणिकाद्वैगुण्येन गीतिका च जायते। इत्थमन्यदपि द्रष्टव्यम् । अत एव 'सुरशुभवाके नहि गुणदोषौ जगुरिति केचिन्न च पुनरन्ये । शुभमशुभं यत्फलमिदमुक्तं नृपवर युक्तं प्रथमगणे तत् ॥' इत्यत्र यदि विवक्ष्यते-दौ श्लोको संभवतः। यद्वा विवक्ष्यते-एक एव श्लोकः स्यात् । अथ विवक्ष्यते-लोकार्धमेवेदं संभवतीति पश्यन्ति ॥ अथ यतश्चैकपादपि छन्दो भवति, तस्मान पादसिद्धिश्छन्दःसिद्धौ विशिष्योपयुज्यते; किंत्ववच्छेदसिद्ध्यैव छन्दःखरूपसिद्धिर्भवतीति विज्ञेयम् । यस्य कस्याप्यर्थस्य शब्दस्य वा यथाकथंचित्क्रियमाणोऽवच्छेद एव तदर्थस्य शब्दस्य वा छन्दः । सर्वोsप्यर्थः खच्छन्दसावच्छिन्नो भवति । यत्तु-विच्छित्तिविशेषोऽप्यत्रान्यदान्तरं छन्दः शिल्पापरपर्यायमाख्यायते, 'शिल्पं छन्द' इति श्रुतेः । तदप्यवच्छेदरूपत्वादेव । यदि ययमवच्छेदो नाम धर्मो जगति न स्यात्तर्हि जगदेवेदं न स्यात्, जगदन्तर्गतं वा यत्किंचित् । एकमेव हीदं सत्यं ब्रह्म तदवच्छेदमाहात्म्यादनेकधात्वेन प्रतिपद्यमानं जगद्भवति, तदन्तर्गतं वा यत्किंचित् । ऊरूदरोरोनीवाशिरोहस्तपादाद्यवच्छेदान्मनुष्यवत् । यथा ह्येकस्मिन् श्वेतपत्रे शिल्पिकृतानेकभङ्गिरेखावच्छेदमाहात्म्याद गौरश्वः पुरुषो हस्तीत्येवमादयोऽनेकभावाः प्रादुर्भूय पृथक्त्वेन प्रतिपद्यन्ते, न ते श्वेतपत्रा
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy