SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ दतिरिच्यते। एवमेवैकस्मिन् सत्ये ब्रह्मणि विश्वकर्मकृतानेकमगिरेखावच्छेदमाहात्म्यादेव गौरश्वः पुरुषो हस्तीत्येवमादयोऽनेकभावाः प्रादुर्भूय पृथक्त्वेन प्रतिपद्यन्ते, न ते सत्याद्ब्रह्मणोऽतिरिच्यन्ते । तथा च भगवान् कणादः-(वै. द. ११२।७, १५). 'सदिति यतो द्रव्यगुणकर्मसु सा सत्ता। सदिति लिङ्गविशेषाद् "विशेषलिसाभावाश्चैको भावः' इत्येवमाद्याख्यायैकस्मादेव भावात् सत्तापदप्रतिपचाब्रह्मणश्छन्दोमेदेन सर्वेषां द्रव्यादीनामुत्पत्तिमभिप्रैति । तथाहि-एकः कश्चित्सत्तापरपर्यायो भावः प्रतीतिसिद्धः । स धर्माणां तारतम्येनावापोद्वापाभ्यामन्यथान्यथा वरूपं गमितोऽन्यथान्यथा पदार्थो भवति । धर्मस्त्वस्य द्रव्यगुणकर्मभेदात्रेधा-द्रव्याणि पुनर्नवधा, गुणास्तु सप्तदशधा, कर्म पन्चधा। तेषामेषां द्रव्यगुणकर्मणां सामान्यविशेषाभ्यां जात्याकृतिव्यक्तिपदप्रतिपन्नाभ्यां ये समवायास्त एव पदार्थाः। यथा घट इति केषांचिद्रव्यगुणकर्मणां सामान्यविशेषाभ्यामेकः समवाय इत्येकः पदार्थो भवति । एकस्मिन्नेव घटनावे कतिचिगव्यगुणकर्माणि समवयन्ति । न च तेषां त्रयाणां सत्तात्रयी। अत एव न द्रव्यगुणकर्माणीति त्रयः पदार्थाः, अपि तु द्रव्यगुणकर्माण्येकः पदार्थः । अनन्ताश्चैवं पदार्थाः। तेषां च सत्तैकत्वनिबन्धनं पदार्थकत्वम् । द्रव्यगुणकर्मणां तु समवेतानामेकैव सत्ता। यथा हि यावत्पृथिव्यामेकस्या एव सत्तायाः प्रतीतावप्यवान्तरा घटपटादिषु मिथः सत्ता विभिद्यन्ते, नैवं द्रव्यगुणकर्मणामेकस्यां सत्तायां पुनरवान्तरा द्रव्यादिसत्ताः पार्थक्येन प्रतिपद्यन्ते । यथा तु घटपटादिषु पृथिवीत्वं न भिद्यते, पृथिव्यादिषु वा द्रव्यत्वं न भिद्यते; तथैव पुनर्द्रव्यादिषु सत्त्वं न भिद्यते। पृथिवीत्वं पृथिवीति प्रत्ययः । द्रव्यत्वं द्रव्यमिति प्रत्ययः। सत्त्वं सदिति प्रत्ययः। सत्त्वं सत्ता भाव इत्येकार्थाः । तदित्थं सद्भाव-द्रव्यभाव-पृथिवीभाव-घटादिभावानां विभिद्य प्रतीतानामानन्येऽपि संक्षिप्य स भावस्त्रेधा प्रतिपद्यते-कश्चित्सामान्यमेव, कश्चिद्विशेष एव, कश्चित्तु सामान्यविशेषात्मकः । यो नित्यं सामान्यमेव, स सत्तानामैको नित्यो भावः। तस्यैकत्वादेवायमेकः पदार्थः संसारो नाम । यो नित्यं विशेष एव तस्यानेक-। त्वादेवैतेऽनन्ता नित्यपरमाणुपदार्था इतश्वेतश्च दृश्यन्ते न संख्यातुं शक्यन्ते। यस्तु; सामान्यविशेषात्मको भावस्तदनुरोधेनैवैते घटत्वपृथिवीत्वद्रव्यत्वादिभिः सामान्यतो' विशेषतश्च गृहीताः सर्व एतेऽनित्याः पदार्था व्यपदिश्यन्ते । एवं वताभ्यां भातिसिदाभ्यां सामान्यविशेषाभ्यां यथेच्छ विनियुकाभ्यां सर्वेषामेषां सत्तासिद्धानां द्रव्यगुणकर्मणां समवायोऽनेकत्वेनैकत्वेन च यथेच्छं नियम्यते । यथा गृहमित्येको भावः, अणकुज्यस्तम्भपटलद्वारकपाटादयो वानेके भावाः । एवमेकत्वानेकत्वयोरेकन द्रव्यगुणकर्मणां समवाये समन्वयादनन्ता एते भावाः पुरुषाख्याः, एक एव वाग्रं भावः पुरुषांख्य इति शक्यते दैविध्येनापि व्यवहर्तुम् । स हि खल्वेकः पुरुधा भवति। अत । एषामनन्ति-'इन्द्रो मायाभिः पुरुरूप इयते। तमेकं सन्तं बहुधा वदन्ति । पुरुष एपेदं सर्वम् । सर्व खल्विदं ब्रह्म । एकमेवाद्वितीयम्' इत्यादि । तत्र यथायं पुरुषापरपर्याय .
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy