________________
(५) परे तु पद्यच्छन्दश्चतुर्धा-अक्षरछन्दः, मात्राच्छन्दः, अक्षरगणच्छन्दः, मात्रागणच्छन्दश्चेति भेदात् । यत्र मात्राणां न्यूनातिरेकेऽप्यक्षरसंख्यानं तत्रं तदक्षरच्छन्दः । यथा वेदे बहुलं प्रयुक्तं गायत्रीत्रिष्टुब्जगत्यादि । यत्राक्षराणां न्यूनातिरेकेऽपि मात्रासंख्यानं तन्त्रं तन्मात्राछन्दः ययौपच्छन्दसिकवैतालीयादिकम् । यत्र पुनरक्षरगणानां क्रमसंनिविष्टानां व्यवस्थया खरूपसिद्धिस्तत्राक्षराणां गुरुलघुस्थानानां च नियतत्वादक्षरगणच्छन्दस्त्वेन व्यवहारः । यथेन्द्रवज्रास्रग्धरावसन्ततिलकामन्दाक्रान्तादि । अथ यत्र मात्रागणानां क्रमसंनिविष्टानां व्यवस्थया छन्दःसिद्धिस्तत्राक्षरनियमाभावान्मात्रागणच्छन्दस्त्वेन व्यवहारः । यथा आर्यादोहाकुण्डलिकादि-इत्येवं पश्यन्ति। अर्थजातेष्वप्याकाशवाय्वादिष्वेषामेव चतुर्णा छन्दसां भेदानानाविध्यम् । अत एवैक एव भावो द्रव्यगुणकर्मरूपैतेजोऽबन्नरूपैस्तदवान्तरानेकरूपैर्वा भेदेन समुत्पद्य नानात्वं प्रतिपद्यते । तदेतदेषां विभिन्नछन्दस्कानामर्थजातानां छन्दोनिबन्धन एवातिरेक इति यज्ञखरूपनिरूपणप्रकरणे वेदसमीक्षायां वैशयेन प्रदर्शितम् ॥
तदित्यं कचिद्विशेषमाश्रित्य त्रेधा चतुर्धा वा विभक्तानामप्येषां मात्रागणव्यवस्थानिबन्धनेषु गणवृत्तेषु वर्णव्यवस्थासामान्यावर्णवृत्तानतिरेकं पश्यन्ति दीर्घदर्शिनः ॥ तथा च सिद्धम्-वृत्तशब्देन व्यपदेश्यं वर्णवृत्तमेकम् , जातिशब्देन व्यपदेश्यं तु मात्रावृत्तमपरमितीत्यं द्वधा पद्यच्छन्दो भवतीति ॥
तत्र यद्यपि मात्रानियताक्षरव्यूह एव छन्द इत्युच्यते यद्यपि च मात्राप्रस्तारखरूपाणं वर्णप्रस्वारेषु वर्णप्रस्तारखरूपाणां च मात्राप्रस्तारेषु यथायथमन्तर्भावो दृश्यतेअत एव तु द्वासप्ततिमात्राप्रतारखरूपविशेषात्मिकाया अष्टादशमात्राप्रस्तारखरूपविशेपात्मिकाया वेन्द्रवज्राया मात्रावृत्तत्वमनभ्युपगम्य यथा वर्णवृत्ततयाभ्युपपत्तिदृश्यते, न तथा 'सिं खिं खिं खागः प्रमोदा' इति लक्षितायाः प्रमोदायाः, 'डुजं डुजं डुजं डुकः प्रमदा' इति लक्षितप्रमदाजातिबहिर्भावनाभ्युपगमः क्रियते । ततो वर्णवृत्तमात्रावृत्तेतिभेदकरणमापाततो निमूलं प्रतिभाति;-अथापि पिण्डापेक्षोपेक्षानियमद्वैविध्याद् वर्णवृत्तत्वमात्रावृत्तत्वाभ्यां विभज्य तयाख्यायते । तस्य चैतस्याक्षरव्यूहस्य यथेच्छं विवक्षितत्वेनानेकधात्वादहवश्छन्दःप्रकाराः प्रचरन्ति । तथाहि प्रस्तारप्रतिपन्नानां खरूपाणां मध्ये यानि यानि गतिसंपचानि स्यखानि क्वचिदेकैकान्येव प्रयुक्तानि छन्दांसि भवन्ति । क्वचित्तु सजातीयानां विजातीयानां वा तेषां द्वयेन त्रयेण चतुष्टयेन पञ्चकेन षट्कादिना वा यथेच्छं कृतेन गतिसंपन्नेन तत्र तत्र छन्दोव्यवहारः । तदुक्तं भगवता पिङ्गलेनापि'एकद्वित्रिचतुष्पादुक्तपादम्' इति । शाजायनोऽप्याह-'पञ्च पतेः, षट् सप्तेत्यतिच्छन्दसाम्' इति । अत एव-'आयाहि मनसा सह' इति (ऋक् १०।१७२३१),–'द्विपदाः शंसती येतरेयब्राह्मणे (५।११.)। 'आयाहि मनसा सह' (१०।१७२११) 'इमानुकं' (१०।१५१) 'व रेकः' (२९७) इति द्विपदासूकानीत्याश्वलायनसूत्रे (८10 २४); 'आयाहि संवर्त उषसं द्वैपदमिति-सर्वानुक्रमण्यां च द्विपदात्वेन व्यवस्थि