SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ १५ वष्टम्भस्य गतिखरूपसंपादकतया च गतिग्रहणे तहणसंभवः । तस्मादासां गतियतिपरिच्छित्तीनां नैकान्ततोऽर्थान्तरत्वमुपलभामहे - इति सिद्धमासामैकार्यम् ॥ एवमेवावष्टम्भप्रयोजकत्वाप्रयोजकत्वोपललितपौर्वापर्येणावस्थितानां मरजादिगणानामेव छन्दस्त्वादस्य छन्दसो यद्यप्यान्तरत्वमापाततः प्रतिभाति अथापि स राजा संवृत्तः' 'स पाचको जातः' ‘स नेदानी कुण्डली न दण्डी' इत्यादिषु विधिनिषेधयोर्विशेष्यव्यफदिष्टयोरपि. विशेषणमात्रविश्रान्तिवदिहापि लाघवान्मसजादिगणसमवेतस्य तत्ता पर्यस्यैव छन्दस्त्वसिद्ध्या छन्दसो गतियतिपरिच्छित्यनतिरिकत्वं फलतीत्यलं छन्दसोऽर्थान्तरत्वपरिष्कारेण; इति-चेद्-अत्रोच्यते-मसजोत्तरसगणचरमावयवोत्तरत्वावच्छेदेन ततगाव्यवहितपूर्वत्वावच्छेदेन च वर्तमानोऽयमवष्टम्भखावन गतिर्न चाध्वपरिच्छित्तिर्न वा छन्दः; गत्यादीनामवष्टम्भवद्देशविशेषे नियतवाभावात् ॥१॥ अथ गतिस्तावन्नावष्टम्भः । अवष्टम्भप्रयोजकत्वोपलक्षितपौर्वापर्यस्य गतिरूपतया तस्य गतिरूपसंपादकत्वेऽपि तत्त्वासंभवात् ॥ न चाध्वपरिच्छित्तिः, गतेहि खमार्गात् अच्यवमानायाः क्लिष्टत्वं कुरूपत्वमनुभूयते। यतश्च तस्याः सौकर्य सौन्दर्य वा सिध्यति, साध्वपरिच्छित्तिरिति गत्यवयवसंनिवेशविशेषरूपायावस्था गतित्वासंभवात् । यथा स्थूलत्वकृशत्वसाम्येनानुच्चावचशीर्षपादादिसाम्येन दिक्साम्येन च वर्णादिलिपीनां सौन्दर्य वाचनसौकर्य चानुभूयते, तदभावेन च बालकादिलिपीनां कुरूपलं वाचनक्लिष्टत्वं च । तथा च तत्र लिप्यध्वपरिच्छित्तेर्लिप्यतिरिक्तत्ववदिहापि गत्यध्वपरिच्छित्तेर्गत्यतिरिक्तत्वं सुवचमिति द्रष्टव्यम् ॥ न वा छन्दः-विलक्षणगणपौर्वापर्यनिबन्धनायां गतौ मात्राव्यवस्थानिबन्धनच्छन्दस्त्वासंभवात् ॥ २ ॥ अयेयमध्यपरिच्छित्तिर्नावष्टम्भो न वा गतिः। विशेषस्य संसाधितत्वात् । न वा छन्दः सवयवसंनिवेशविशेषरूपायामध्वपरिच्छित्तो मात्राव्यवस्थानिबन्धनच्छन्दस्त्वस्याप्यसंप्रातः ॥ ३ ॥ अत एव चेदं छन्दो गतियतिपरिच्छित्तिभ्योऽतिरिच्य प्रतिपद्यते-इतीत्यमेषामर्थान्तरत्वं संसिद्धम् ॥ अत एव 'न वृत्तदोषात् पृथग् यतिदोषो वृत्तस्य यत्यात्मकत्वा'दिति पूर्वपक्षीकृत्य-'न, लक्षणस्य पृथक्त्वादिति' समाहितं वामनेन काव्यालारसूत्रेषु । यत्तु केचित् अन्येषामर्थान्तरत्वेऽपि छन्दोगत्योरैकार्थ्यमेवाभ्युपगच्छन्ति, तदसत्। गतेश्छन्दोधर्मिकत्वसंभवेऽपि छन्दस्त्वासंभवादित्यलम् ॥ इति छन्दसोऽर्थान्तरतावादः। अथ छन्दोविभक्तिवाद:अथेदं छन्दः पञ्चधा-अनादिष्टच्छन्दः, बृहच्छन्दः, अतिच्छन्दः, कृतिच्छन्दः, प्रचितिच्छन्दश्चेति भेदात् । तत्र पञ्चानादिष्टच्छन्दांसि-उक्तमत्युक्तं मध्य प्रतिष्ठा सुप्र· तिष्ठा चेति । अथ सप्त बृहच्छन्दांसि-गायत्री, उष्णिक, अनुष्टुप, बृहती, पङ्किः, । त्रिष्टुप्, जगती चेति। तथा सप्तातिच्छन्दांसि—अतिजगती, शक्करी, अतिशकरी, . छ. ५
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy