________________
४४
रेषु प्रन्येषु साख्यादिशब्दवत् । तथा च गौणवृत्त्यां क्वचिदन्यत्र प्रयोगेऽपि मुख्यवृत्त्याबच्छेद एवं छन्द इति संसिद्धम् ॥
अथ छन्दोवादः ।
ननु किमिदं वाक्छन्द इति जिज्ञासायां गतियत्यध्वपरिच्छित्त्यतिरेकेणे छन्दः खरूपं निरूप्यते तत्रावकल्पते । गतियत्यध्वपरिच्छित्तिच्छन्दसामनर्थान्तरत्वात् । न च वृत्तिर्लयो ध्वनिरिति गतेस्त्रयो मेदाः, अवसायो विच्छेदो विरतिर्यतिरणुयतिरिति यतेः पञ्च मेदाः, लिप्यध्वपरिच्छित्तिर्गत्यध्वपरिच्छित्तिरित्यध्वयोगस्य द्वौ भेदौ, वर्णच्छन्दो गणच्छन्दो मात्राच्छन्दचेति छन्दसत्रयो मेदाः, इतीत्थमेषां चतुर्णां नितान्तवैषम्यं प्रतिपद्यत इति वाच्यम् । आपाततस्तेषां मेदकल्पनायांमपि वस्तुतः स्वरूपानतिरेकात् । तथा हि-गतित्रैविध्ये वृत्तिध्वन्योर्वर्णवेदीयपदार्थत्वाच्छन्दसश्च वर्णोपलक्षितत्वेऽपि वर्णानात्मकत्वात्तत्र यद्यपि वृत्तिध्वन्योरप्रवेशः प्रतिपद्यते । अथाप्येष लयः खलु यतितारतम्यनिबन्धनो न यतेरतिरिच्यते । अयमेव तु लयो गत्यध्वपरिच्छित्तिशब्दान्तरेणाप्याख्यायते । तयोर्विवेकानुपलम्भात् । मसजसततगेषु हि वर्णैरभिनीयमानेषूच्चारयितुरुच्चारणसामञ्जस्यमनुभूयते । जसयोः स्थाने तभयोः संनिवेशे त्ववश्यमुच्चारणक्लिष्टता भवति । तत्र चायं द्वितीयः सगणोऽवष्टम्भी विष्टम्भमजानताप्यभिनीयमानः खयमवष्टम्भमुपस्थापयति खान्ते । तदिदमवष्टम्भित्वं तत्र केन रूपेण - ? द्वादशाक्षरत्वेन वा, शार्दूलविक्रीडितसंबन्धित्वेन वा, तथाविधसत्त्वेन वा गणतुरीयत्वविशिष्टसत्त्वेन वा, मगणोत्तरत्वविशिष्टसगणोत्तरत्वविशिष्टजगणोत्तरत्वविशिष्टसत्त्वेन वा ? । नाद्यः — मरभनयययेषु नगणघटकस्य द्वादशाक्षरत्वेऽप्यवष्टम्भानपेक्षणात् । न द्वितीयः- तत्र मगणजगणादीनां विष्टम्भनिरपेक्षत्वात् । न तृतीयः - तत्रैव द्वितीयसगणस्यानवष्टम्भित्वात् । न तुरीयः -- सजससगेषु तुरीयस्यापि तस्य तदनपेक्षणात् । तस्मान्मसजोत्तरसगणघटकत्वेनैव रूपेण तस्य द्वादशाक्षरस्यावष्टम्भित्वं वाच्यम् । तथा चमस्य सगणाव्यवहितपूर्ववृत्तित्वेनावस्थानं, सस्य मगणोत्तरवृत्तित्वजगणपूर्ववर्तित्वाभ्यां, जस्य च सगणद्वयमध्यवर्तित्वेन । सस्य पुनर्जगणोत्तरवर्तित्वतगण प्राग्वर्तित्वाभ्यां चेत्येवमवस्थानक्रम एवाध्वपरिच्छित्तिः स्यात् । ततः क्रमात्प्रच्यवमानानां तेषामुच्चारणे क्लिष्टतानुभवात् । अथेत्थं पौर्वापर्येणोच्चारणमेवैषां लयगतिविशेषः स्यात् । निर्दिष्टरीत्या तेनैव रूपेणावष्टम्भसापेक्षत्वात् । अवष्टम्भापेक्षाप्रयोजकत्वाप्रयोजकत्वाभ्यामेव च लयगतिप्रत्यवमर्शात् । तदिदं पौर्वापर्यं च मसजसानां प्रत्येकस्य क्रमिकावस्थानलक्षणाच्चातिरिच्यते इति लयगतेरनतिरिक्ताध्यपरिच्छित्तिः । यतश्च मसजोत्तरसघटकत्वेन यतिमत्त्वं दृश्यते, ततो यतिमत्त्वव्याप्यतया मसंजोत्तरसघटकत्वरूपाया लयगतैरध्वपरिच्छित्तेर्वा यद्यप्यर्थान्तरत्वमापाततः प्रतिभाति, अथाप्यवष्टम्भप्रयोजकत्वाप्रयोजकत्वोपलक्षितपौर्वापर्यस्यैव गतिरूपत्वप्रतिपत्त्या अन्वयव्यतिरेकाभ्यामस्या