________________
४३
(२) ख-पादप्राधान्येन चाष्टभिरक्षरैः कृता मर्यादा गायत्री, दशमिविराट, एकादशभित्रिष्टुप् , द्वादशभिर्जगतीत्यपीच्छन्तीति-द्वितीयः॥ (३) एवं पर्यायतुलितकाख्या शिल्पाद्युपयोगिनी मितिश्छन्द इति-तृतीयः ।
( ४ ) मितेरपि न मितित्वेन रूपेण छन्दस्त्वमपि तु कारणतापेक्षितखरूपविशेषजनकतावच्छेदकत्वेनेति-चतुर्थः । .
एतमेव निष्कर्षमनुसृत्य लौकिकाः, वैदिकाः, वाचिकाः, आर्थिकाश्च सर्वे छन्दोव्यवहारा यथायथं प्रवर्तमानाः सन्तीति तत्र तत्रोपेक्ष्यम् ॥ तदित्यमार्थिकेषु छन्दोव्यवहारेषु छन्दःप्रतिष्टातत्त्वं वैशयेन प्रदर्शितं भवति ॥
वाचिकेष्वपि छन्दःस्वर्णसामिवाशयसाम्येनार्णानामपि नियतसंख्यावच्छिनानां, संवेशोपवेशाभ्यां गायत्र्यादिछन्दोविशेषखरूपोपलब्धेस्तत्संवेशोपवेशाधिष्ठानस्य प्रस्तारादिक्रियाभिनेयस्यामूर्तस्य छन्दःप्रतिष्ठात्वमवतिष्ठते। सा च मात्रासंख्याप्रधाना, अक्षरसंख्याप्रधाना, नियतमात्राक्षरानप्रधाना चेति त्रिविधाप्यनिरुतपृथप्रूपा गायत्र्यादिशब्दैर्लक्ष्यते। तस्याश्चाक्षराणि धर्माः । अक्षरेषु चेयमनुगतेति कृत्वा तस्याश्छन्दःप्रतिटाया ब्रह्मत्वम् । तस्माच्छन्दतत्त्वविज्ञानेन सर्वमिदं विज्ञातं भवतीति विज्ञेयम् ।
अथान्यः प्रत्यवतिष्ठते- . 'श्रोत्रियश्छन्दोऽधीते ॥' पाणिनि सू. ५। २ । ८४ ॥ 'बहुलं छन्दसि ॥' २ । ४ । ३९ ॥ इत्येवमादिभिः सूचजातेषु; ‘युक्तश्छन्दांस्पधीयीत मासान् विप्रोऽर्धपञ्चमान् ।' 'कामात्मकाश्छन्दसि कर्मयोगा एभिर्विमुक्तः परमश्नवीत ।' इत्येवमादिभिः स्मृतिजातेषु; 'आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ।'
इत्येवमादिभिः काव्यजातेषु; एवमन्यत्रान्यत्र च वेदविषयतया छन्दःशब्दः प्रयुज्यते। 'अनन्ताश्च वेदाः श्रूयन्ते' इत्यनवच्छिन्नत्वेऽवच्छेदत्वानुपपत्त्या सिद्धमतिरिक्तवृत्तिकत्वं छन्दःशब्दस्य-इति चेत् । अत्रोच्यते-पद्यगद्यगेयात्मकैत्रिविधैर्वाचिकच्छन्दोभिरेव सर्वस्य वेदस्य छन्दनात्तद्भेदादेव च मेदेन तत्प्रतिपत्तेस्वास्थ्यात्ताच्छन्छन्यायेन तत्र तदुपचार इष्यते। किं च पृथिव्यादिलोकानामन्यादिदेवानां च तत्तच्छन्दश्छन्दितानामेव खरूपलाभात् कार्यकारित्वव्यवस्थापनाचेह द्यावापृथिवीधर्मनिरूपणे यज्ञवेदे भूयसा छन्दसामानेडनाच्छन्दःप्राधान्याच्छन्दःशब्दोपचार इष्यते।
उक्तं च सर्वेषां कार्यजातानामाधारभूतं प्राकृतं छन्दो ब्रह्माख्यम् । तदनुगतधर्मप्रतिपादनपरो ग्रन्थइछन्द उच्यते इति युतम् । सांख्यन्यायवेदान्तादिधर्मप्रतिपादनप