________________
अष्टिः, अत्यष्टिः, धृतिः, अतिधृतिरिति । एवं सप्तैव कृतिच्छन्दांसि-कृतिः, प्रकृतिः, आकृतिः, विकृतिः, संकृतिः, अभिकृतिः, उत्कृतिश्चेति मेदात् । अथात ऊर्ध्व प्रचितिच्छन्दस्तच संख्यायते। नन्वेतगृहच्छन्दोऽभिप्रायेण सप्तैव छन्दांसि भवन्तीति भूयसा श्रूयते, तत्कथमेतावान् प्रपञ्चश्छन्दसामाख्यायते ? उच्यते-षोडशीप्रक्रमे“छन्दसां यो रसोऽत्यक्षरत, सोऽतिच्छन्दसमभ्यक्षरत् । तदतिच्छन्दसोऽतिच्छन्द- . स्त्वम् । सर्वेभ्यो वा एष छन्दोभ्यः संनिर्मितो यत् षोडशी' इत्याम्नायते। तत्र छन्दसां रसश्चतुरक्षररूपः । 'चतुरक्षराण्येव छन्दास्यासन् ।' इति छन्दोव्यूहनश्रुत्युक्तेः । तथा हि-छन्दोव्यूहने तावत् चतुरक्षरा गायत्री त्रिष्टुब् जगती च । तत्र जगत्यास्त्रीण्यक्षराणि, त्रिष्टुभ एकमक्षरं च समादाय गायत्री तावदष्टाक्षरा क्रियते। इत्थं कृते अष्टाक्षरा गायत्री, त्र्यक्षरा त्रिष्टुप्, एकाक्षरा जगती सिद्धा । अथैवंरूपा गायत्री खयं संयुज्य त्रिष्टुभ संपादयति सा त्रिष्टुबेकादशाक्षरा संपद्यते। एवं संपन्ना च त्रिष्टुप खयं संयुज्य जगतीं संपादयति सा जगती द्वादशाक्षरा संपद्यते। गायत्री, त्रिष्टुप् , जगती चेति त्रीण्येव छन्दांसि सर्वाणि छन्दांसि भवन्ति गायत्र्युष्णिगनुष्टुव्बृहतीपङ्कित्रिष्टुब्जगत्याख्यानि । तत्रानुष्टुप्पती, उष्णित्रिष्टुभौ, गायत्रीजगत्यौ, चेत्येवं द्वे द्वे संयुज्य द्वे द्वे बृहत्यौ संपादयत-इत्येतेषां बृहतीरूपतया बृहच्छन्दःशब्देनाख्यानम् । तथा च श्रूयते-'बृहती वै छन्दसां खाराज्यमानशे' इति । तदित्यं छन्दःसिद्धौ तस्यैव चतुरक्षररूपस्य रसस्य जगत्यामत्याधाने षोडशाक्षरं भवति। तदत्याधानादतिच्छन्द इत्युच्यते । अथ पञ्चदशीसप्तदश्यौ, चतुर्दश्यष्टादश्यौ, त्रयोदश्यूनविंश्यो, चेत्येवं द्वे द्वे संयुज्य द्वे द्वे षोडश्यौ संपादयत-इत्येतेषामतिच्छन्दोरूपतया अतिच्छन्दःशब्देनाख्यानम् । एवमूनविंशत्युत्तरं पुनश्चतुरक्षराधाने त्रयोविंशत्यक्षरं भवति । तत्र कृतिशब्दः । तत्कियोत्तरं तज्जातीयक्रियान्तरसंनियोगे कृतिशब्दो दृष्टो वर्गवत् । तथा चेहापि द्वाविंशीचतुर्विश्यौ, एकविंशीपञ्चविंश्यौ, विंशीषडिंश्यौ चेत्येवं द्वे द्वे संयुज्य द्वे द्वे त्रयोविंश्यौ संपादयत इति कृतिच्छन्दोरूपतया कृतिच्छन्दःशब्देनाख्यायन्ते । तदित्यं सति कृतिच्छन्दसामतिधृतावतिच्छन्दसां च जगत्यामन्तर्भावः सुवचः। प्रचितिच्छन्दांसि तु छन्दःसमुच्चयरूपाणीति नातिरिच्यन्ते। अथानादिष्टच्छन्दसां गायत्र्यामन्तर्भावः। भुरिग्दैव्यां चतुरक्षरवृद्ध्या याजुष्याः, तत्र खराजि चतुरक्षरवृद्ध्या साम्याः, तत्र खराजि चतुरक्षरवृद्ध्या आर्याः, तत्र खराजि चतुरक्षरवृद्ध्या आर्ष्याः स्वरूपा' धानात् । तदुक्तम्
- 'उक्तादिपञ्चकं कैश्चिद्गायत्रीत्येव कथ्यते । __ यथा ह्यतिजगत्यादि त्वतिच्छन्दः प्रवर्ण्यते ॥' इति ।
तथा चातिजगत्यादीनां जगत्याम् , उत्तादीनां तु गायत्र्यामन्तर्भावसंभवात् सप्तैव छन्दांसीति याज्ञिकानामभिमानः ॥ तदिदं छन्दः पुनद्वैधा–मात्राछन्दो वृत्तच्छन्दच। तत्र मात्राछन्दांस्युतानि गायत्र्यादीनि सप्तैव । तानि जातिभेदेन पृथग्