SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३५ अत्र हि पौर्णमास्यष्टकामावास्यानामहोरात्रयोश्चाक्षरत्वमाख्यायते छन्दःपरिभाषायाम्। तथा शतपथश्रुती'पञ्चदश वा अर्धमासस्य रात्रयः । अधमासशो वै संवत्सरो भवति तद्रात्रीरवामोति । पञ्चदशानामु वै गायत्रीणां त्रीणि च शतानि षष्टिश्चाक्षराणि, त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि तदहान्याप्नोति । तद्वैव संवत्सरमानोति ।' इत्येवमहोरात्राभ्यां संवत्सराप्ति प्रदर्शयता भगवता महर्षिणा पश्चदशभिः पञ्चदशभिरंशैः प्रकल्पितशरीराणां वैदिकपर्याये संवत्सराख्याप्रतिपन्नक्रान्तिवृत्तप्रदेशानामर्धमासाख्यानां छन्दःपरिभाषायामक्षराख्यया प्रतिपत्तव्यानां चतुर्विंशत्या संवत्सरस्य गायत्रीत्वं सुप्रतिपादितं भवतीति द्रष्टव्यम् । एतदभिप्रायेणैव च'अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम्।' इत्येतन्मन्त्रविवरणप्रक्रमे शतपथे "देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे। तान् स्पर्धमानान् गायत्र्यन्तरा तस्थौ । या वे सा गायत्र्यासीद् , इयं वै सा पृथिवी । इयं हैव तदन्तरा तस्थौ । त उभय एव विदांचक्रुः यतरान् वै न इयमुपावर्त्यति, ते भविष्यन्ति, परेतरे भविष्यन्तीति । तामुभय एवोपमन्त्रयांचक्रिरे-अमिरेव देवानां दूत आस, सहरक्षा इससुररक्षसमसुराणाम् । सानिमेवानुप्रेयाय । तस्मादन्वाह 'अग्निं दूतं वृणीमह' इति ॥" इत्यनेन ग्रन्थेन संवत्सरवत् पृथिव्या अपि गायत्रीत्वमाख्यायते । तत्राप्यंशानां षष्ट्युत्तरत्रिशतीमितानां व्यवस्थिततया 'अर्धमासशो वै संवत्सरो भवति' इति न्यायेन पञ्चदशशः परिच्छेदे चतुर्विंशत्यक्षरत्वोपलब्धेः ॥ अपर आह "यत्पर्यपश्यत् सरिरस्य मध्ये उर्वीमपश्यजगतः प्रतिष्ठाम् । तत्पुष्करस्यायतनाद्धि जातं पर्ण पृथिव्याः प्रथनं हरामि ॥ याभिरहुंहजगतः प्रतिष्ठामुवामिमां विश्वजनस्य भीम् । ता नः शिवाः शर्कराः सन्तु सर्वाः ॥” (ते. ब्रा.) "आपो वा इदमग्रे सलिलमासीत् । तेन प्रजापतिरश्राम्यत्-कथमिदं स्यादिति । सोऽपश्यत् पुष्करपर्ण तिष्ठत् । सोऽमन्यत...अस्ति वे तत्-यस्मिन्निदमधितिष्ठतीति स वराहो रूपं कृत्वोपन्यमज्जत् । स पृथिवीमध आर्छत् । तस्या उपहत्योदयजत् तत्पुष्करपर्णेऽप्रथयत् । यदप्रथयत् तत्पृथिव्यै पृथिवीत्वम् ॥ अभूद्वा इदमिति तद्भूमै भूमित्वम् ॥ तां दिशोऽनु वातः समवहत् । तां शर्कराभिरहत् शं वै नोऽभूदिति तच्छर्कराणां शर्करत्वम् ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy