SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ इत्येवं मत्रब्राह्मणाभ्यां तैत्तिरीयकें जगतः प्रतिष्ठायाः शर्कराभिरक्षरस्थानीयाभिः संभृतत्वादस्याश्छन्दःसामान्यलक्षणे प्राप्ते छन्दोविशेषप्रतिपित्सायाम् "स वै खलु प्रथमं यजति । तद्वै कनिष्ठं छन्दः सद् गायत्री प्रथमा छन्दसां युज्यते। अयं वै लोको बर्हिः । ओषधयो बर्हिः । अस्मिन्नेवैतल्लोके ओषधीर्दधाति । ता इमा अस्मिलोके ओषधयः प्रतिष्ठिताः । तदिदं सर्व जगदस्याम् । तेनेयं जगती, तज्जगतीं प्रथमामकुर्वन् । अथ नराशंसं द्वितीयं यजते । अन्तरिक्षं वै नरांशसः । अन्तरिक्षमु वै त्रिष्टुप् । तंत्रिष्टुभं वै द्वितीयामकुर्वन् ।” इति शतपथोक्तप्रकारेण द्युलोकान्तरिक्षापेक्षया कनिष्ठायाः पृथिव्याः कनिष्ठत्वसाधयाद्गायत्रीत्वं सर्वजगदाश्रयत्वाद्वा जगतीत्वमित्यादि तत्तत्प्रकरणप्राप्तं द्रष्टव्यमिति । क्वचित्तु-'अवस्य श्लोकस्य स्रग्धराछन्दः,' 'त्रैष्टुभमिदं पद्यमित्यादिवदिहापि भेदेन व्यपदिशन्ति-'गायत्री वै पृथिवी, त्रैष्टुभमन्तरिक्षम् , जागती द्यौः, आनुष्टुभीदिशः।' इत्यादि। एवं यत्र गार्हपत्यात्माचं सन्तमाहवनीयमुद्धर्तुं विक्रमाधानं विधीयते तत्र "तं वा अष्टासु विक्रमेष्वादधीत, अष्टाक्षरा वै गायत्री । गायत्र्यैवैतद्दिवमुपोत्कामति । एकादशखादधीत, एकादशाक्षरा वै त्रिष्टुप् । त्रिष्टुभैवैतद्दिवमुपोकामति । द्वादशवादधीत, द्वादशाक्षरा वै जगती । जगत्यैवैतद्दिवमुपोकामति ॥ नात्र मात्रास्ति यत्रैव स्वयं मनसा मन्येत तदादधीत । स यद्वा अप्यल्पकमिव प्राञ्चमुद्धरति । तेनैव दिवमुपोकामति । इत्येवं विक्रमाणां छन्दोनिदानसंख्यया संख्यातानां छन्दःपरिभाषायामक्षरत्वं छन्दसां मात्रानिबन्धनत्वं च सुव्यकमाख्यातमिति द्रष्टव्यम् ॥ एवममिष्टोमप्रशंसायामैतरेयके “स वा एषा गायत्र्येव यदमिष्टोमः । चतुर्विशत्यक्षरा वै गायत्री, चतुर्विशतिरमिष्टोमस्य स्तुतशस्त्राणि । स वा एष संवत्सर एव यदग्निष्टोमः । चतुर्विंशत्यर्धमासो वै संवत्सरः, चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि ।" इत्येवमनिष्टोमस्य गायत्रीत्वसंवत्सरलोपचारप्रसझेन स्तुतशस्त्राणामक्षरत्वमवगतं भवति । यत्तु स्तोत्रशस्त्राणामधमासत्वानवगमवदक्षरत्वमपि नावगतं स्यादिति ब्रूयात् , तदपवाद्यम् । स्तोत्रशस्त्रयोरर्धमासत्वासिद्धौ चतुर्विशत्यर्धमासत्वरूपसंवत्सरत्वस्याप्यग्निटोमनिष्ठत्वेनाप्रतिष्टानापत्तेः । यत्त-"सोऽब्रवीत् प्रजापतिश्छन्दांसि-रथो मे भवत, युष्माभिरहमेतमध्वानमनुसंचराणीति । तस्य गायत्री च जगती च पक्षावभवताम् । उष्णिक् च त्रिष्टुप् च प्रध्यौ । अनुष्टुप् च पतिश्च धुयौँ । बृहत्योबोद्धिरभवत् । स एतं छन्दोरथमास्थाय एतमध्वानमनुसमचरत् ॥” .. इति तैत्तिरीयके छन्दसां रथत्वम् ; (१)
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy