________________
जडेवप्येवं वस्खप्रवृत्तिप्रयोजकस्य खखासाधारणधर्मस्य खखच्छन्दस्त्वमिति सर्व एव स्वकर्मणि स्वच्छन्दसो भवन्ति । बलवत्परधर्मसंक्रमे तु परच्छन्दसो जायन्ते। अन्याधीनप्रवृत्तिकत्वात् । यथा हि कपाटादिषु समवायिनोः काष्टखण्डयोर्जटितयोरालम्बनस्य कीलितलौहादिशकलस्य कपाटच्छन्दस्त्वम् , अन्यथा काष्टखण्डद्वयविभागात्कपारस्वरूपहानिः प्रसज्यते; एवं पादद्वयावसक्तरश्मिना आच्छन्दितः पशुस्तदधीनवनिको भवतीत्यसी रश्मिश्छन्दः स्यात् । एवमेवान्यनान्यत्र सर्व एव जडश्चेतनो वा धमी स्वगतन धर्मविशेषेण छन्दितस्तदधीनवृत्तिको भवतीत्यतस्तस्मिन् खधर्मे प्रतिष्ठानादम्य स्वच्छन्दस्त्वम्, स्वरूपाननुगतेन च केनचिद्धर्मेणाच्छन्दने तस्य परच्छन्दस्त्वं गवतीति पालोच्यम् । (७) एतेन 'स्वच्छन्दोच्छलदच्छे'त्यादयः प्रयोगा अपि मुव्याख्यानाः ॥ (८) 'राज्येन च्छन्दयामासुः' इत्यादावपि विरेचनस्य व्यावर्तनापरपर्यायस्य मंवित्परिच्छेदानतिरेकान्नार्थान्तरत्वमापद्यते । तदित्यमनेकधा निर्दिष्टं संस्कृतं छन्दःप्रतिष्टातत्त्वम् ॥
अथानः प्राकृतां छन्दःप्रतिष्ठामनुवर्तयामः । अस्ति हि—सर्वेषामेवार्थजातानां काचिदाकारनिवन्धना मात्राभूमिः, ज्ञानदर्शनचारित्र्यशक्तिनिबन्धना च वृत्तभूमिः प्रातिस्विकभावेन प्रकृतिसिद्धा; या भूयोदर्शनेन परीक्षकबुद्धिनिरूढा भवति । तां तामेव भूमिं वुद्धिनिष्टां छन्दःप्रतिष्ठामालोचमानः शिल्पी तत्साम्येन बहिरर्थमुत्पादयति । इमां च दार्शनिका यद्यप्यनुभवाहितसंस्काररूपां विषयाकाराकारितान्तःकरगवृत्त्यनुशयरूपां वाचक्षाणा विषयोत्पत्त्यनन्तरभाविनीमेवाभिप्रयन्ति । अथापि तद्वस्तूपपत्तस्तच्छन्दःप्रतिष्ठानिघ्नतया वस्तुतस्तस्या औत्पत्तिकत्वसंसिद्धिः । नहि खलु हखचिकीर्षया कार्य गमितस्यापि हस्तिनः प्रोत्तुङ्गचिकीर्षया वा पोषं गमितस्यापि कीटस्य कपिशरीरमर्यादानुगमः शक्यते कर्तुम् । न वा तरुणकपिसमशरीरस्य मनुष्यशिशोर्महतापि प्रयत्नेन मुग्धत्वमपनोद्य तरुणकपिवद्गमनागमनप्रीढिं कर्तु पारयामः । पञ्चविंशतिवर्षाणि यावददृष्टवर्धनभावस्यापि नरशरीरस्य तदुत्तरमुपायपरम्परयापि वृद्धियोग्यत्वं न दृश्यते। एते चान्ये चैवंविधास्तस्या एव सृष्ट्यादी परमेश्वरेच्छानियमितायाः प्रतिष्ठाया महिमानो भवन्ति ।
सा चेयं छन्दःप्रतिष्टा द्वेधा-मात्राप्रतिष्ठा वृत्तप्रतिष्ठा च। अवयवपिण्डपरिवृत्तिसहत्वे आद्यायाः, तदसहत्वे चान्याया व्यवस्थितिः । एतदव्यक्तप्रतिष्टाव्यञ्जका एवावयवकूटाः प्रतिष्टातुलितकेन संनिविष्टारछान्दसिकनयेऽक्षरशब्देन संज्ञायन्ते वर्णशब्देन च । तथा च श्रूयते
'स बृहतीमेवास्पृशद् द्वाभ्यामक्षराभ्यामहोरात्राभ्यामेव । तदाहुः-कतमा सा देवाक्षरा बृहती यस्यां तत्प्रत्यतिष्टत् । द्वादश पौर्णमास्यः, द्वादशाष्टकाः, द्वादशामापास्याः. एषा वाव सा देवाक्षरा बृहती, यस्यां तत्प्रत्यतिष्टदिति ।'