SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ३३ मनसेऽनये स्वाहेति । मेधायां वा मनसाभिगच्छति — यजेयेति । ते अस्यैते आत्मन् देवते आधी भवतः -- मेधा च मनश्च – इत्यादिना, तथा 'इमे वै प्राणा मनोजाता मनोयुजो दक्षक्रतवः, वागेवाभिः, प्राणोदानौ मित्रावरुणौ, चक्षुरादित्यः, श्रोत्रं विश्वेदेदाः’ इत्येवमादिना च सर्वव्यवहारप्रयोजकत्वं मनसः समाम्नायते । 'तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः । दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ॥" इति मनुना स्मर्यते च । एतदभिप्रायेणैव पुरुषेषु मनुष्यमानुषमानवमनुजाः शब्दाः प्रवर्तन्ते । मनुमनुर्मनसामैकार्थ्यात् । अत एव - 'पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वाभूतानि जातवेदः पुनीहि मा ॥ इति मन्त्रस्याथर्वणे 'पुनन्तु मनवो धियः' इति पाठः संगच्छते । मनखीत्यादिशब्दानां व्यक्तिविशेषनिरूढानां मनः संयुक्तयावदर्थपरत्वाभाववन्मनुष्यादिशब्दानामपि पशुपक्ष्यादिष्वनुपचारः प्राशस्त्याभिप्रायः । प्राशस्त्यं च वृत्त्यष्टकेबीजाङ्कुरयोग्यक्षेत्ररूपस्यास्य मनुषः संपूर्णात्मत्वेन द्रष्टव्यम् । अत एव मनुष्यवनैतेषु तिर्यग्योनिजेषु वृत्त्योऽष्टविधा उत्पद्यन्ते । तदुत्पत्तिक्षेत्रस्य मनुषस्तेषु खिलरूपेणैवानुवर्तमानत्वात्तदनुसारेण यत्किं - चिद्वृत्तेरेव ततः समुदयात् । वृत्त्यष्टकं चेदमाथर्वणे समामनन्ति — 'मनसे चेतसे धिय आकूतय उत चित्तये । मत्यै श्रुताय चक्षसे विधेम हविषा वयम् ॥' इति । एतस्मिन्नेव मनुषि प्रयोजकादितादात्म्याभिप्रायेण कतिपये शब्दाः प्रवर्तन्ते । तथा च मनुः 'प्रशासितारं सर्वेषामणीयांसमणोरपि । रुक्माभं स्वप्रधीगम्यं विद्यात्तं पुरुषं परम् ॥ एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥' इति । अथैतस्मिन् मनुष्यसामान्ये खवद्रविणाप्यायनसमर्थकसंस्कारविशेषोत्पत्तावन्यथान्यथाचारग्राही भवतीति कस्यचिद्ब्राह्मणत्वमन्यस्य क्षत्रियत्वं वैश्यत्वं शूद्रत्वं वा प्रवर्तते । तदेतदेवं तत्तद्विभिन्नप्रवृत्तिप्रयोजकानां तत्तदाशयगतसंस्कारविशेषाणां ब्राह्मणादिच्छन्दस्त्वमाख्यायते । दुराचारानुमितेन तादृशसंस्कारभ्रंशेनोन्मर्यादो ब्राह्मणः स्वरूपात् पततीति तादृशपातित्य प्रतिबन्धद्वारा यथास्थितस्वरूपसंरक्षकस्य तादृशसंस्कारस्य ब्रह्मादिद्रविणस्य वा ब्राह्मणादिच्छन्दस्त्वोपपत्तेः । ब्राह्मणादीनां तत्रैव प्रतिष्ठितत्वाचेति । तथा च न तत्राप्यर्थान्तरतेति सूक्ष्मेक्षिकया समीक्ष्यम् । छ०४
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy