________________
- (0) खन्दोच्छलदच्छालहरातेतराम्बुच्छया' इत्यादिषु निष्प्रतिबन्ध
(८)- 'त्वदोषी राजपुत्रस्त ऋष्टिषेणसुतोऽभवत् ।
राज्येन छन्दयामासुः प्रजाः खर्ग गते गुरौ ।' ... इत्यादिषु विरेचनपरत्वं का प्रतिपद्यते; तावतापि नार्थान्तरत्वमापादयितुं युक्तम् । (१) विषस्य नाडीमार्गावरोधकतया दैशिकावच्छेदलक्षणत्वात् ॥ (२.) छन्दानुवृत्तीतिपदं तु द्वेषा व्याख्येयम् छन्दःशन्दस्वेच्छापरत्वे-यथा सुहृदामिच्छा स्यात्तथानुवर्तनीयमिति कृत्वा त एते दुःखेन साधयितुं शक्या भवन्ति, सर्वथा परेच्छानुवर्तनस्य दुःखरूपत्वादिलेकोऽर्थः । छन्दःशब्दस परिच्छेदपरत्वे तु-वाच्यमवाच्यं देयमदेयमित्येवं मर्यादया व्यवहारनियमेनानुवृत्तौ क्रियमाणायां सुहृदो दुःसाधा भवन्ति, मित्रतायाः परिच्छेदासहत्वादिसन्योऽर्थः । तथा चेच्छापरत्वे वक्ष्यमाणलक्षणम्, परिच्छेदपरत्वे जूतलक्षणं छन्दस्त्वं सिद्धमिति नान्तरम् ॥ -- (३।४।५।६।) अथ 'श्रोतुं छन्दः', 'छन्दमृत्युः' इत्यादिषु तु सर्वनैवेच्छार्यकत्वं छन्दःशब्दस्येति न तावदनैकार्यम् । रुच्यादीनामिच्छाविशेषरूपत्वात् । इच्छा चाभिप्रायो मनसश्छन्दः । तथा चाहुः कोशकाराः–'अभिप्रायश्छन्द आशयः' इति । यद्यपि च विषयविशेषाभिमुख्येन मनसः प्रवृत्तिरेवाभिप्रायस्तथाप्युपचारभेदाढसौ देघा-मनोहीतविषयो वा विषयारूढमनो वा । अस्मिन् विषये कीदृशस्तवाभिप्रायः ? केनाभिप्रायेणागतोऽसि ? धनं नोऽभिप्रेतमित्येतत्सर्व विषयामिप्रायम् ,धनाभिप्रायेणागतः, द्रष्टुं विज्ञातुं वा ममामिप्रायः, किमत्राभिप्रैषीति, मनोऽभिप्रायम् इतीत्यमुभयथा व्यवहारदर्शनात् ॥ तत्र मनोगृहीतविषयस्य मनोऽवच्छेदकत्वान्मनश्छन्दस्त्वं भवति । अभिप्रायानुसारेणैव मनसः खरूपलामात् तत्रैव तत्प्रतिष्ठानात् । अथ विषयसंक्रान्तमनसः खलु मनुष्यावच्छेदकत्वान्मनुष्यच्छन्दस्त्वे भवति । खसंयुक्तमनोऽनुरोधेन प्रवर्तमानस्यात्मन एव मनुष्यत्वात् तत्रैव तत्प्रतिष्ठानात् । अत एव यावानस्य देहः सांयौगिका वार्यास्ते सर्वे डीनमनसो दीनाः, उदारमनसस्तूदारा भवन्ति; नीचमनसो नीचत्वम् , महाशयमनसस्तु महाशयत्वं प्रतिपद्यन्ते । अकुत्य उत्तिष्ठन्तामित्यभिप्रयत एवास्याङ्गुलय उत्तिष्ठन्ते, हस्त उत्तिष्ठतामित्यभिप्रयतश्च हखः । गच्छति तिष्ठेयमिति तिष्ठत्यव्यतिरेकेण ॥ यत्र तु गच्छेयमिति न गच्छति, तत्रेयता कालेन गच्छेयमिति कालविशेषस्य विशेषणविधया विषयीभावो वा, न.गच्छेयमियेवमभिप्रायविशेषस्य नान्तरीयकसंश्लिष्टस्य प्रतिबन्धकाविषयीमावो वा, सामापचयादिप्रतिवन्धकसद्भावो वा, हेतुः समीक्षणीयः । अत एव,
आकूयै प्रयुबेऽमये साहा' इति । 'आत्मना वा अप्रेमावते यजेयेति । तमात्मन एव प्रयुक्के यत्तते । ते अस्यैते आत्मन देवते आधी भवतः-आकृतिश्च प्रयुक्च । मेधार