________________
६ अध्यायः]
छन्दःशाखम् ।
तथा शालिनीवातोमर्मीपादयोरन्येषामपि खल्पभेदानां प्रयोगानुसारेणोपजातयो ज्ञेयाः। __ . दोधकं भौ भूगौ ग् ॥६१८॥... इन्द्रवंशा
इन्द्रवंशा
तगणः तगणः
जगणः रगणः
तगणः तगणः
गणः रगणः
5.-5.5.1-1.5.1-5..s 5.5.-5.5 +s. H5..s तस्थुर्वि-नम्रशि-तिपाल-सडले तस्याङ्ग-णद्वार बहिःप्र-कोष्ठके ॥
(कुमारसं० १५६) १. तुल्यसंख्याकवर्णपादयोरेवोपजातित्वमिति न नियमः, किंतु मित्रसंख्याकवर्णपादयोरपि। यथा
"राम लक्ष्मणपूर्वजं रघुवरं सीतापति सुन्दरं ___ काकुत्स्थं करुणामयं गुणनिधि विप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्ति
वन्दे रामाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥" इति पद्ये ऊनविंशत्यक्षरपादकेन (१९) शार्दूलविक्रीडितेन सहकविंशत्यक्षरपादकसग्धरावृत्तस्य पादद्वयेन मिश्रणादुपजातित्वम् । एवमेवानुष्टुब्बृहत्योरपि संकरादुपजातिः । इति नव्याः । वस्तुतस्तु-सर्वैरपि छन्दःशास्त्रकारैरुपजातेः समवृत्ताधिकार एवानानात् , विषमाक्षरवृत्तमिश्रणस्याप्युपजातित्वेऽर्धसमविषमवृत्तेष्वतिव्याप्तेः, 'अत्रानुकं गाथा' (पि. सू० ८।१ ) इति सूत्रवैयर्थ्यप्रसङ्गात्, छन्दोभङ्गदोषस्य निर्विषयत्वापत्तेश्च समाक्षरयोर्द्धयोर्मिश्रणमेवोपजातित्वमिति युक्तम् । तथा च रत्नाकरे-'इत्यं किलान्याखपि मिश्रितासु स्मरन्ति जातिष्विदमेव नाम ।' (३।४) इति तलक्षणे 'इत्यं' पदप्रयोगोऽपि खरसतः सङ्गच्छते। यत्तु-'राम लक्ष्मणपूर्वज' इत्युदाहृतम् , तत्र गाथात्वमेव सुवचम् । अत एव
'यो विश्वात्मा विधिजविषयान् प्राश्य भोगान् स्वविष्ठान्
पश्चाच्चान्यान् खमतिविभवाघ्योतिषा खेन सूक्ष्मान् । सर्वानेतान् पुनरपि शनैः खात्मनि स्थापयित्वा हित्वा सर्वान् विशेषान् विगतगुणगणः पात्वसौ नस्तुरीयः ॥'
(मां० उ० मा० २) इति शङ्करभगवत्पादीय श्लोके 'न च चतुर्थपादे वृत्तलक्षणाभावादसाहत्यमाशहनीयम्, गाथालक्षणस्य तत्र सुसम्पादत्वात् ।' इत्यानन्दज्ञानोक्तिः। एवेन-'कल्लोलवेलितदृषत्परुषप्रहारै रत्नानि रत्नाकर ! मावसंस्थाः।' इत्याद्यपि व्याख्यातम् । भागवताचुदाहरणानि त्वार्षत्वाल्लौकिके नातीवोपयुज्यन्ते। कचिल्लौकिके तथा दर्शनं तु दोष एवेति 'समाक्षरजातिद्वयमिश्रणमेवोपजातित्वमिति प्राचां मतमेव निर्वाधम् ॥