________________
१९
एवमादिभिरत रेयादिश्रुतिभिश्च संस्कारस्य छन्दस्त्वं सुप्रतिपद्यते ।।
,
“प्रकृतिविशिष्टं चातुर्वर्ण्यं संस्कारविशेषाच्च 'ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शुद्रो अजायत ।' इति निगमो भवति । 'गायत्र्या छन्दसा ब्राह्मणमसृजत्, त्रिष्टुभा राजन्गम् जगत्या वैश्यम्, न केनचिच्छन्दस शूद्रम् ॥' इत्युसंस्कार्यो 'भवति । त्रिष्वेव निवासः स्यात्सर्वेषाम्” इति वसिष्ठस्मरणें वाक्यशेषाद् ब्राह्मणादिविषयाणां संस्कारविशेषाणामेव गायत्र्यादित्वेनावधारणीयत्वात् ॥ ‘न शूद्रे पातकं किंचिन्न च संस्कारमर्हति' इति मनुस्मरणे छन्दःप्रातिनिध्येन संस्कारशब्दप्रयोगाच्च ॥ न च
'शूद्रोऽप्येवंविधः कार्यो विमा मन्त्रेण संस्कृतः । न केनचित्समसृजच्छन्दसा तं प्रजापतिः ॥'
इति मनुयमादिस्मरणे छन्दः शब्दस्य मन्त्रपरतया व्याख्यानात्'अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः ।
अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥'
`
इति मरीचिवचने छन्दःप्रातिनिध्येन मन्त्रशब्दप्रयोगाच्च संस्कारपरत्वं दुर्वचंमिति भ्रमितव्यम् ॥ संस्कारगुणभूतस्य मन्त्रस्य ब्राह्मणत्वादिप्रयोजकत्वप्रतिपत्त्यपेक्षया तत्तन्मन्त्रोपतिसंस्कारस्यैव तदौचित्यात् ॥ मनुवचने हि पूर्वार्धे शूद्रत्वस्योद्देश्यतावच्छेदकतयोनरावें पुनर्विधेयतावच्छेदकतया समानप्रतिपत्त्यभावेन तत्र छन्दः शब्दस्य मन्त्रपरत्वे नानाभावाश्च । मरीचिवचनेऽप्यमन्त्रस्य तस्य मन्त्रोपलक्षित्संस्कारायोग्यस्येत्येवार्थे युक्तियुक्तः शक्यते प्रतिपत्तुम् । अत एव
'चित्रकर्म यथानेकै रागैरुन्मील्यते शनैः । ब्राह्मण्यमपि तद्वत् स्यात् संस्कारैर्विधिपूर्वकैः ॥'
इत्येवमङ्गिरसा तत्तन्मन्त्रोपलक्षितसंस्कारस्यैव ब्राह्मण्यप्रयोजकत्वं स्मर्यते । तस्मात्सिद्धं छन्दः शब्दस्य संस्कारपरत्वम् ॥ २॥
(३) एवमेव
“तेजो वै ब्रह्मवर्चसं गायत्री । ब्रह्म गायत्री । ओजो वा इन्द्रियं वीर्य त्रिष्टुप् । त्रिष्टुप् । जागताः पशवः । इषमूर्ज रयिः पुष्टिश्च ॥” इति भूयसा तेजःप्रभृतिषु तत्तदर्थविशेषेषु गायत्र्याद्युपचारेण द्रविणं छन्द इष्यते ॥ ३॥
तदित्थंमागत्यप्रतिगच्छदर्थानां संस्काराणां द्रविणानां चानन्तर्भावादपर्याप्तमेतच्छन्दोलक्षणं मन्यामहे । इति चेत् ।
उच्यते—आगत्य प्रतिगच्छदर्थानां गायत्रीत्वं तावद्वेधा प्रतिपद्यते – देवतासाहचर्यमक्त्या च देवताहर्भक्त्या च । तदेतद्विज्ञानसौकर्याय यास्कनिरुकं देवतानां भणिसाहचर्य
तावद्वयाख्यास्यामः ---