________________
६ अध्यायः] . छन्दःशास्त्रम्।
११३ शुद्धविराड् मसौ गौ ॥ ६ ॥९॥ .. यस्य पादे मकार (sss) सकार (us) जकार (Isi) गकारा (6) भवन्ति तदुत्त 'शुद्धविराड्' नाम ॥ तत्रोदाहरणम्
पथ्याच्छन्दः (१०१३३१)-रो यजौ च पथ्या गुरुत्तरा।' 'लोचनं' इति क्वचित् । 'मरालिका' इति नामान्तरं 'शिवाननशरैर्यतिः' इति विशेषश्च कृष्णीये । मनोरमाच्छन्दः (१०॥३४४)-'नरजगैर्भवेन्मनोरमा ।' छन्दःकौस्तुभे ।
'शास्त्रसागरैः।' इति यतिरप्युक्तः कृष्णीये। कमलाच्छन्दः (१०३६४) 'कमला स्यात्सज्ञगगा विच्छिन्ना सायकैः शरैः।'
- मं०म०॥ कमलाया एव 'संयुता' इति नाम प्राकृतपिङ्गले। सुषमाच्छन्दः (१०॥३९७)
'कण्णो पढमो हत्थो जुअलो कण्णो तिमलो हत्यो पअलो। सोला कलआ छका वला एसा सुसमा दिट्ठासुसमा ॥'
प्रा० २१९७॥ माणिक्यमालाच्छन्दः (१०४००)-'न्यमा माणिक्यमाला गातुभिः मा.
यकैर्यतिः।' मं० म०॥ सारवतीच्छन्दः (१०४३९)
'दीह लहूजुअ दीहलहू सारवई धुअ छंद कहू । अंत पोहर ठानु धआ चोदहमत्तविरामकआ ::'
प्रा० २१९५॥ 'हारवती' इत्यपि नामान्तरं सारवत्याः। अमृतगतिच्छन्दः (१०।४९६)
"दिअवर हार फअलिआ पुण वि तह डिअ करिआ। वसुलहु वे गुरुसहिआ अमिअगइ, घुअ कहिआ ॥'
प्रा० २१९९॥ ___ 'त्वरितगतिः, अमृततिलका, अमृतगतिका' इति नामान्तराणि अमृतगतेः। 'कुलटा' इति कृष्णीये। 'कुलटा स्यानजनगाः पञ्चभिः पञ्चभिर्यतिः।' इति विशेषश्च तत्र। हंसीच्छन्दः (१०१४९७)-'हंसी मभनगैः प्रोक्ता यतिवेदैगुहाननैः ।' कृष्णीये । रजिताच्छन्दः (१०१७४७)–'रजिता रजसा लो गो विरामः सायकर्तुभिः।'
मं. म.॥ १. उक्तदशाक्षरप्रस्तारस्य पश्चचत्वारिंशदुत्तरत्रिशततमोऽयं भेदः (३४५) 'शुद्धवि राष्ट्' नाम्ना प्रसिद्धः । विराट्' इत्यपि नामान्तरं कचित् ।