________________
५ अध्यायः ]
छन्दः शाखम |
पञ्चमोऽध्यायः ।
७१
वृचम् । ५ । १ ।
अधिकारोऽयमाशास्त्रपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामस्तद् "वृत्त 'वेदिसत्यम् । तेन प्राकनं लौकिकं छन्दोजातं 'जातिः' इत्युच्यते । इत उत्तरं व 'वृत्तम्। तथा चोकम् -
1
'पद्यं चतुष्पदी तच वृत्तं जातिरिति द्विधा ।' (का० द० १११ ) गायत्र्यादौ छन्दसि वर्तत इति 'वृत्तम्' । तच स्थिरगुरुलघ्वक्षरविन्यासमिष्यते पादैन संयोगात् ‘पचम्’। यथा-आर्यादिच्छन्दः खपि पादव्यवस्था नास्तीति पाद संयुको, इत्ते पुनः पृथग्भवत इत्यर्थः । पादेन संयोगाभावात् । तथा चोकम्'एकदेशस्थिता जातिर्वृतं गुरुलघुस्थितम्' इति ॥
सममर्धसमं विषमं च । ५।२ ॥
'समसर्वावयवत्वात् 'समम्' । यस्य चत्वारः पादा एकलक्षणयुक्तास्तत् 'सम' वृत्तम् । शेषं च संज्ञानुरूपमेव । तत्रार्षे समे यस्य तत् 'अर्धसमम्' सर्वावयवेभ्यः । अर्घाभ्यां च विगतं समं यस्य तद् ‘विषमम्' । एवं त्रित्रकारमपि वृत्तवातमुतम् ॥
समं तावत्कृत्वः कृतमर्धसमम् । ५ । ३ ॥
‘समम्' इति समवृत्तसंख्योच्यते । तयैव गुणितं 'तावत्कृत्वः कृतम् उच्यते। एतदुक्त भवति — समवृत्तसंख्यागुणिते समवृत्तसंख्यायाः पिण्डे या संख्या निष्पद्यते, तावत्संख्यमर्थसमं वेदितव्यम् । तत्र गायत्रे छन्दसि समद्रमसंख्या. चतुःषष्टि (६४) रथमाध्यायसिद्धा । तस्यां चतुःषष्टि (६४) संख्यागुणितायामर्धसमवृत्त संख्या संपद्यते -- चत्वारि सहस्राणि षण्नवतिश्च वृत्तानि । अङ्कतोऽपि ( ६४x६४ ) =४०९६ ॥
विषमं च । ५ । ४ ॥
अर्धसमं तावत्कृत्वः कृतं 'विषमं भवति । एतदुक्तं भवति — अर्धसमवृत्तसंख्या (४०९६) अर्धसमसंख्या (४०९६) एवं गुणिता विषमवृत्तसंख्या संपाते. एका कोटि, सप्तपष्टिर्लक्षाणि, नामसप्ततिसहस्राणि द्वे शते, पोडशोत्तरे । अतोऽपि (४०९६४४०९६) = १६७७७२१६ इति ॥
समसमार्धसमोपचितमर्धस्रमं विषमं च यथाक्रमं समोपचितं समार्धसमाभ्यां चोपचितं वेदितव्यम् ॥
राश्यूनम् । ५ । ५ ॥
तद् विषमं तं (१६७७७२१६) अर्धसमं (४०९६) वा राश्यूनम् (१६७७७२१६
१. अत्र पादपर्यायः पदशब्दः । चतुर्णां पदानां समाहारश्चतुष्पदी । चतुष्पदीति पञ्चलक्षणं प्राणिकत्वादुक्तम्, द्विपदीपञ्चपदीपट्पदीनामपि दृयूमानत्वात् इति तरुणवाचस्पतिः । .
4