________________
४ अध्यायः ]
छन्दः शास्त्रम् ।
संवन्धम् । द्वौ गकारौ चत्वारो लघवो भवन्ति, स एको (ss) गणः । गकारोऽन्ते यस्य सन्तो द्वितीयो ( Is) गणः । गकारो मध्ये यस्य स गमध्यस्तृतीयो ( is i ) गणः । गकार आदौ यस्यासौ गादिश्चतुर्थो (su) गणः । नकारलकारौ मिलितौ चत्वारो लघवो भवन्ति, स पञ्चमो (॥॥) गणः ॥
एवं गणेषु सिद्धेष्विदानी मार्यालक्षणं करोति
स्वरा अर्ध चार्यार्धम् । ४ । १४ ॥
गणग्रहणमनुवर्तते । स्वरा इति सप्तानां संज्ञा । यत्र प्रस्तारे गणाः सप्त भवन्ति, अर्ध च गेणस्य, तदार्यार्धं निष्पद्यते । द्वितीयमप्यर्थं तादृशमेव । समप्रविभागेऽर्धशब्दः । यद्येवमर्धशब्दस्य ‘अर्धं नपुंसकम् ' ( पा० सू० २।२।२ ) इत्यनेनैकदेशिसमासे सति पूर्वनिपातः प्राप्नोति, यथा— अर्धाढकम्, अर्धपलम्, अर्धखारीति । नैष दोषः; सत्यपि समप्रविभागत्वे संबन्धमात्रस्यात्र विवक्षितत्वात् । समप्रविभागस्याप्यर्धशब्दस्यैकदेशिसमासव्यभिचारदर्शनात् । यथा— तुलार्धेन गां क्रीणाति ।
पणार्धक्रीतताम्बूलचर्वणाद्भुर्विताननाः । अनभ्यासाद्गलल्लाला यान्त्येते वारयात्रिकाः ॥
१. आर्यायाः प्रथमं लक्षणप्रयोजनमुक्तं वृत्तमणिकोशे'घटिकासहस्रयुग्भिः शिवो जगौ पश्चभिर्मुखैर्याम् । त्र्यब्दान् द्वादश दिवसान् षोडश घटिकाश्च निर्निद्रः ॥
आर्याद्बोधः कठिनो ज्ञातुं व्यक्तानि वर्णवृत्तानि ।
आदौ लक्षणममं तानि च परतः सलक्षणं ब्रूमः ॥' ( वि० ३ श्लो० १-२ ) 'पढमं बारहमत्ता वीए अट्ठादहेहिं संजुत्ता ।
जह पढमं तह तीअं दहपश्चविहूसिआ गाहा ॥' इति प्रा० पि० सू० १।४९.
*
'सब्बाए गाहाए सत्तावण्णाइँ होन्ति मत्ताई ।
पुब्बद्धम्मि अ तीसा सत्ताईसा परद्धम्मि ॥' इति प्रा० पि० १/५१.
"
'गाथा' इति नामान्तरमार्यायाः प्राकृतपिङ्गले. २. गुरुरूपों द्विमात्र इत्यर्थः ३. इदं सूत्रं श्रीमता भगवता पतञ्जलिना प्रत्याख्यातम् ' परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' ( पा० सू० २।४।२६) इति सूत्रे भाष्ये. तथा च भाष्यम् – 'एकदेशिसमासो नारप्स्यते । कथमर्धपिप्पलीति ? । समानाधिकरणसमासो भविष्यति, अर्धं च सा पिप्पली चार्धपिप्पलीति । न सिध्यति, परत्वात्षष्ठीसमासः प्राप्नोति । अद्य पुनरयमेकदेशसमास आरभ्यमाणः षष्ठीसमासं बाधते। इष्यते च षष्ठीसमासोऽपि । तद्यथा - अपूपार्थं मया भक्षितम् । ग्रामार्ध मया लब्धमिति । एवं पिप्पल्यर्धमिति भवितव्यम् ।' इति अत एव 'प्रेम्णा शरीरार्धहरां हस्य' (कु० सं० १।४९) इति कालिदासप्रयोगः संगच्छते ।