SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। पादश्चतुर्भागः। ४।१०॥ चतुर्भागश्चतुर्विंशत्यक्षराया गायत्र्याश्चतुर्थी भागः पादसंज्ञां लभते । गायत्र्याः षडक्षरपादः । एवमुष्णिगादिष्वपि द्रष्टव्यम् । समवृत्तविषयमेतत् ॥ यथावृत्तसमाप्तिर्वा । ४।११॥ यस्य वृत्तस्य यादृशैः पादैन्यूँनाक्षरैरधिकाक्षरैर्वा समाप्तिदृश्यते, तस्य तादृशा एव पादा ग्रहीतव्याः। वाशब्दो व्यवस्थितविभाषा। उद्गतादिषु विषमवृत्तेषु चतुर्भागातिक्रमेणापि पाव्यवस्थादर्शनात् । आदौ तावद्गणच्छन्दो मात्राछन्दस्ततः परम् । तृतीयमक्षरच्छन्दश्छन्दस्त्रेधा तु लौकिकम् ॥ आर्योद्युद्गीतिपर्यन्तं गणच्छन्दः समीरितम् । वैताल्यादिचूलिकान्तं मात्राछन्दः प्रकीर्तितम् । समान्याद्युत्कृतिं यावदक्षरच्छन्द एव च ॥ तत्रादौ तावदार्यालक्षणसिद्ध्यर्थ गणसंज्ञां करोति ला समुद्रा गणः । ४ । १२॥ ल इत्येकमात्रिकस्याक्षरस्य ग्रहणम् । समुद्रा इति चतुःसंख्योपलक्षणार्थम् । चतुर्णा लकाराणां 'गणः' इत्येषा संज्ञा विधीयते ॥ गौ गन्तमध्यादिलश्च । ४।१३॥ अनेन गणस्य विन्यासभेदं दर्शयति । स हि गणः कदाचिद्गुरुद्वयेन (ss) भवति, कदाचिदन्तेनैकेन गुरुणा (us), कदाचिन्मध्यमेन (Isi), कदाचिदाद्येन (su), कदाचिच्चतुमिर्लघुभिः (m) । षष्टस्य मेदस्याभावाद् विस्पष्टार्थमिदं सूत्रम् । अन्तमध्यादिरिति प्रथम द्वन्द्वसमासं कृत्वा पश्चाद्गकारेण बहुव्रीहिः । द्वन्द्वात् परो यः श्रूयते लभतेऽसौ प्रत्येकाभि १. इदं च लक्षणं प्रायिकत्वात् । आर्यासु अर्धसमविषमेषु च न्यूनाधिकाक्षरदर्शनात् । विपुलाचूलिकादिषु विपुलायां यतिमात्रं निषिद्धं त्रिपु गणेषु; 'चूलिकार्धमेकोनत्रिंशत्-' (छ० शा० ४।५२) इत्यर्धस्य लक्षणकथनेऽपि एकाक्षरन्यूनाधिकभावेन पादः कल्पनीयः इति तरुणवाचस्पतिः। पादलक्षणं मन्दारमरन्दे–'छन्दसा ग्रथितः शब्दः पाद इत्यभिधीयते। (१९) इति । इदमत्रावगन्तव्यम्-एकद्वयादिवर्णघटितपादचतुष्टयात्मवृत्ते वक्तुः श्रोतुर्वा पादत्वेन तात्पर्ये सति पाद एव, वृत्तत्वेन तात्पर्ये सति वृत्तमेव । एतदेकाक्षरमारभ्य चतुर्विंशतिवर्णपर्यन्तवर्णघटितवाक्य एव । पञ्चविंशतिषड्विंशतिवर्णामकवाक्ये पादत्वमेव । तत ऊर्ध्व तु न पादत्वम् इति तद्वथाख्यायाम् । २. 'गायत्र्या वसवः' (पि. सू० ३३३) इति यत्तृतीयाध्याये दर्शितं, तद्वैदिकविषयमात्रम् । तेन लौकिकच्छन्दसां त्रिपञ्चषट्पदता निषिद्धा । यतो लौकिकविषमवृत्तेऽपि लौकिकविषम एव भविष्यति न तु वैदिकोकः, किं तु चतुष्पदत्वं तत्राप्यक्षतमेव ज्ञेयम् ।।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy