SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ४० काव्यमाला। छन्दःसु निचदुरिजी, तथा विराट्खराजौ च दृश्येते; न लौकिकेषु । अतो लौकिकेषु संदेहाभावात्तचिर्णयभूता देवतादयो नेप्यन्ते ॥ खराः षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाः।३।६४॥ खरा गायत्र्यादिषु क्रमेण द्रष्टव्याः ॥ सितसारङ्गपिशङ्गकृष्णनीललोहितगौरा वर्णाः । ३ । ६५ ॥ गायत्र्यादिषु क्रमेण वर्णा वर्णनिर्णयनिमित्तमनिधीयन्ते ॥ आनिवेश्यकाश्यपगौतमाङ्गिरसभार्गवकौशिकवासिष्ठानि गोत्राणि ३।६६॥ १. एतदने-'श्यामान्यतिच्छन्दांसि १६७ रोचनामाः कृतयः ३१६८ . अनुक्कानां कामतो वर्णा इति ३२६९ । इति सूत्रत्रयं स्पष्टार्थमेव । हलायुधीयमस्यानुपपनत्वप्रतिपादनमव्याख्यानं च द्वाभ्यां-' (छं० शा० ३।६०) इ. त्यम्योपलक्षणार्थत्वेन त्र्याधूनाधिकेष्वतिच्छन्दस्सु निर्णायकान्तरापेक्षासत्वात् , 'यश्छन्दसां वेद विशेषमेनं भूतानि च त्रैष्टभजागतानि । सर्वाणि रूपाणि च भक्तितो यः स्वर्ग जययेति तथामृतत्वम् ॥' (ऋ० प्रा० १८४६) इति विशेषज्ञानस्य श्रेयोहेतुत्वस्मरणात्, एतत्सूत्रत्रयत्यागे च प्रत्यध्यायसमाप्ति दृश्यमानेतिशब्दाभावेनात्र तृतीयाध्यायसमाप्त्यनिश्चयात्, अविच्छिन्नवेदिकाध्ययनपरम्परया 'गोरोचनाभाः कृतयो ह्यतिच्छन्दो हि श्यामलम् । (३३०।२२) इत्यग्निपुराणेऽनुवाददर्शनेन चास्य मौलिकत्वनिश्चयात्, आर्षशास्त्रदूषणे 'यः प्रवृत्तां श्रुतिं सम्यक् शास्त्रं वा मुनिभिः कृतम् । दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् ॥' (म० भा० अनु० २४१८) इत्यादौ महादोषस्मरणाच्चातिसाहसमात्रम् ॥ अत्र विशेषः प्रातिशाख्ये–'अरुणं श्यामगौरे च बभ्रु वै नकुलं तथा । पृश्निवर्ण च वैराजं निचच्च्यावं पृषद्धरिक् ॥ ब्रह्मसाम→जुश्छन्दः कपिलं वर्णतः स्मृतम् । (१४४२८-३२) इति । अरुणं प्रातःसन्ध्याभवर्ण पालम् । श्यामं कृष्णवर्णमतिच्छन्दः । गौर सिद्धार्थवर्ण विच्छन्दः । बभ्रु कपिलवर्ण द्वैपदं छन्दः । नकुलवर्णमेकपदं छन्दः । पृश्निवर्ण बहुवर्णचित्रं वैराजम् । अथ कस्मात् वैराजस्य द्विवर्णोपदेशः क्रियते?। तत्र क्रमणद नीलत्वं सिद्धम् । न सिद्ध्यति; कथम् ? एतास्तिस्रो विराजः,-अनुष्टुबेका, पतिरे:, द्वाभ्यां न्यूना चैका। तत्र पूर्वयोर्नीलवर्णः, अस्याः पृश्निरिति वेदितव्यम् । एवमपि कमिनदयवसीयते-पूर्वयोर्नीलः, अस्याः पृश्निरिति ? । निद्भुरिजोन्यूनाधिकयोः समीपोदन अस्याः पृश्निरिति, परिशेषादितरयोनील इत्यध्यवसीयते । एके कमात्पतेरेव विराजः नौ मन्यन्ते । श्यावं कृमिदूषितपत्रवर्ण निचद्भवति । विद्रुमवद्धरिक् भवति ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy