________________
३ अध्यायः ]
छन्दः शास्त्रम् ।
कस्य छन्दसः का देवता, यथा निर्णयः कर्तव्यः ? इत्यपेक्षायामिदमुच्यतेअग्निः सविता सोमो बृहस्पतिर्मित्रावरुणाविन्द्रो विश्वेदेवा देवताः । ३ । ६३ ।।
३९
गायत्र्यादीनां जगतीपर्यन्तानां यथाक्रममभ्यादयो देवता वेदितव्याः । तत्र संदिग् छन्दसि यदाग्नेयं, तदा गायत्री । यदि सावित्रं, तदोष्णिग् । एवं सर्वत्र । वैदिकेष्वेव
१. मित्रावरुणौ विराजो देवते, न पङ्क्तेः । अत्रोद्देशक्रमानुसारेण (छं० शा ० २।१५) गायत्र्यादिछन्दःसप्तके पञ्चमस्य पङ्कित्वेन तत्र तद्देवताया एव वक्तव्यत्वेऽपि तत्स्थाने विरा देवतोक्तिः पङ्किविराजो श्चत्वारिंशदक्षरत्वाविशेषेण 'अक्षराण्येव सर्वत्र निमित्तं बलवत्तरम् । विद्याद्विप्रतिपन्नानां पादवृत्ताक्षरैर्ऋचाम् ॥' (ऋ० प्रा० १७१३५) इति शौनकोक्तिबलादभेदाभिप्रायेण, उपजीव्यश्रुत्यर्थानुसरणैकपरतया चेति ज्ञेयम् । तथा चैतन्मूलभूत मन्त्रौ दृश्येते — अ॒ग्नेगा॑य॒त्र्य॑भवत्स॒यु॒ग्वो॒ष्णिया सवि॒ता सम्ब॑भूव । अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्म॑हस्वान् बृह॒स्पति॑र्बृह॒ती वाच॑मावत् ॥ वि॒राज् मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्रस्य त्रि॒ष्टुवि॒ह भागो अर्द्धः । विश्वा॑न् दे॒वान् जग॒त्या वि॑वेश॒ तेन॑ चाय॒ ऋष॑यो मनु॒ष्या॑ः ॥' (ऋ० सं० ८/७/१८/४-५ ) इति । कात्यायनस्तु शुक्लयजुः सर्वानुक्रमणिकायाम्'विराजो मित्रः, खराजो वरुण' (४।१० ) इति विशेषमाह । 'पतेर्वरुण' इत्यपि तत्रैव दृश्यते, परं भगवता शौनकेन पङ्क्तिं प्रकृत्य 'सा तु वासवी' (ऋ० प्रा० १७ २२ ) इत्युक्तत्वात्, अनुपदमेव वरुणस्य विराड् देवतात्वाभिधानाच 'वसव' इत्यस्य स्थले 'वरुण' इति लेखकप्रमाद एवेति सम्भाव्यते । 'छन्दसां देवताः क्रमात् । अभिः सूर्यः शशी जीवो वरुणश्चेन्द्र एव च ॥ विश्वे॑देवाश्च - ' ( ३३०।१९ ) इत्याग्नेयसंवादाच्छाखाभेदेन वा व्यवस्था । वासवी वसुदैवत्या । जगत्या देवता अवयुत्याह साङ्ख्यायनब्राह्मणम् -'वा`रुणं बार्हस्पत्यं वैष्णवमिति शंसति, जगती वा एतेषां छन्दः' (३०।२ ) इति । अन्येषामपि च्छन्दसां देवता आह शौनकः - 'प्राजापत्यास्त्वतिच्छन्दां, विच्छन्दा वायुदैवता । द्विपदा पौरुषं छन्दो, ब्राह्मी त्वेकपदा स्मृता ॥' (ऋ० प्रा० १७/२३ - २६ ) इति । अतिजगत्यादीनि च्छन्दांस्यतिच्छन्दः शब्देनोच्यन्ते । विच्छन्दा अवान्तरमेदाः पदपङ्कयादय' इत्युव्वटः । कृष्णीये त्वन्या एव देवता उक्ताः—
'गायत्र्या देवता वह्निर्विश्वेदेवास्तथोष्णिहः । बृहत्या देवता सूर्यो बृहस्पतिरनुष्टुभः ॥ अश्विनौ देवता पत्रिष्टुभश्च सुधाकरः । जगतीछन्दसः प्रोतो देवता नाकनायकः ॥ पृथ्वी विराट्छन्दसः स्यात्ककुदस्तु त्रिविक्रमः । ककुद्विराट्छन्दसस्तु केचिद्देवं हरिं विदुः ॥' ( मं० मं० बिं० ११ )
इति । तत्र मूलं मृग्यम् ।