________________
३८
.
काव्यमाला।
आदितः संदिग्धे । ३।६१॥ यदा षड्रिंशत्यक्षरं छन्दो भवति, तदा किं प्रतिपत्तव्यम् । किं गायत्री खराड् ! उतोणिग्विराड् ? इति । एवं संदिग्धे सति छन्दस्यादिभूतात् पादानिर्णयः कर्तव्यः। यदि प्रथमः पादो गायत्र्यास्तदा गायत्र्येवासौ । अथोष्णिहस्तदोष्णिग् इति । एवं सर्वत्र ॥
देवतादितश्च । ३। ६२॥ इदमपरं निर्णयनिमित्तमुच्यते । संदिग्धे छन्दसि देवतादेश्च निर्णयः कर्तव्यः । 'आदि'ग्रहणं खरादिपरिग्रहार्थम् ॥
खरादपतया यथा—अयाश्वानेऽस्यनभिशस्तीच (१) सत्यमित्वमया असि (२)। अयासावयंसा कृतो (३) ऽया सन् हव्यमूहिषे (१) ऽया नौ धेहि भेषजम् (५)॥'
(आश्व० श्री० सू० ११११११३) खरात्रिष्टुभो यथा-'इन्द्रासोमा परि वा भूतु विश्वत (१) इयं मतिः कक्ष्याव वाजिना (२)। यो वा होत्री परिहिनोमि मेधये (३) मा ब्रह्माणि नृपतीव जिन्वतम् ()॥' (ऋग्वेदे-अ०५ अ० ७ व० ६ म० १)
खराड्जगत्या यथा-'आरौहतं दशतशकरीमम (१)। ऋतेनीन आयुषा वर्चसा सह (२)। ज्योग्जीवन्त उत्तरामुत्तरा साम् (३)। दर्शमहं पूर्णमर्सि यज्ञं यथा यजै ()॥' (तै० ब्रा० १।२।१।३५) । ___३. 'खराड्दै तच्छन्दो यत्किञ्च चतुस्त्रिंशदक्षरम् (सां० ब्रा० १५॥१) इति श्रुतिस्त्वनुष्टुप्परा । विशेषेण राजत इति विराट् । स्वेनैव राजत इति खराट्।
१. 'उष्णिग्गायत्रौ जागतश्च' (छं० शा० ३।१८) इत्यनुशासनैनोष्णिहः प्रथमपादस्यापि गायत्रत्वान्नेदं सूत्रं गायत्र्युष्णिहोः सन्देहे नियामकं भवितुमर्हति । अतः:
'यो अग्नीषोमा हुविषा सपर्या (6) देवीचा मनसा यो घृतेन (२) ... तस्य व्रतं रक्षतं पातमंहसो (३) विशे जनाय महि शर्म यच्छतम् (५)'
. (ऋ० सं० १।६।१९।२) इतीयं षट्चत्वारिंशदक्षरा किं त्रिष्टुप्खराट् ? उत जगती विराट? इति सन्देहे प्रथमापादस्यकादशाक्षरत्वात्रिष्टुबेवेत्युदाहार्यम्।
२. “भवत्येव संशये छन्दसां दैवतेनाध्यवसायः, यथा-'तव स्वादिष्टा- (ऋ० सं० ३।५।१०।५) 'शिवा नः संख्या-' (ऋ० सं० ३।५।१०।८) इत्यनुष्टुबुष्णिहो.. मध्ये 'घृतं न पूतं-' (ऋ० सं० ३।५।१०।६) इति षड्विंशत्यक्षरे द्वे ऋचा दैवतेन खराजी गायत्र्यावघ्यवसीयेते, न विराजावृष्णिहौ. ।" इत्यृक्प्रातिशाख्यव्याख्यायामु. बटः । १४॥३०)।