________________
३ अध्यायः ]
छन्दःशास्त्रम् ।
न्यङ्कुसारिणी द्वितीयः । ३ । २८ ॥
'पूर्वश्चेद्' इत्यनुवर्तते । पूर्वश्वेज्जागतः पादो द्वितीयो भवति, शेषाश्च गायत्राः, तदा 'न्यङ्कुसारिणी' नाम्नी बृहती भवति । यथा
'मे॒त्स्यपा॑यि ते॒ मह॒ः (१) पात्र॑स्ये॒व हरिवो मत्स॒रो मद॑ः (२) । वृषा॑ ते॒ वृ॑ष्ण॒ इन्दुं (३) वा॒जी स॑हसं॒सात॑मः (४) ॥'
( ऋग्वेदे - -अ० २ अ० ४ व० १८ मं० १ )
स्कन्धोग्रीवी क्रोष्टुकैः । ३ । २९ ॥
इयमेव ‘न्यङ्कुसारिणी’ क्रौष्टुकेराचार्यस्य मतेन 'स्कन्धोग्रीवी' नाम छन्दो भवति । आचार्यग्रहणं पूजार्थम् ॥
उरोबृहती यास्कस्य । ३ । ३० ॥
इयमेव न्यङ्कुसारिणी यास्कस्याचार्यस्य मतेन 'उरोबृहती' नाम्नी भवति ॥ उपरिष्टाद्वृहत्यन्ते । ३ । ३१ ॥
यदा जागतः पादोऽन्ते भवति, तदा 'उपरिष्टाद्बृहती' नाम भवति । यथा
G
܂
२१
'न तम॑हि॒ न दु॑रि॒तं (1) दे॒वा॑सो अष्ट॒ मैत्यै॑म् (२) ।
स॒जोष॑सो॒ यम॑र्य॒मा (३)
मि॒त्रो नय॑न्ति॒ वरु॑णो॒ अति॒द्वषि॑ः (8) n
(ऋग्वेदे - अ० ८ अ० ७ ० १३ मं० १ )
३
। ३२ ॥
पुरस्ताद्बृहती पुरः । सै एव जागतः पादः पूर्वश्चेद् भवति, शेषाश्च गायत्राः, तदा 'पुरस्ताद्बृहती' नाम भवति । यथा
‘म॒हो यस्पति॒ शव॑स॒ो अ॑सा॒म्या (1) म॒हो नृ॒म्णस्य॑ तूतुजिः (२) ।
भ॒ वज्र॑स्य धृष्णोः (३) पि॒ता पु॒त्रम॑व प्रि॒यम् (४) ॥'
( ऋग्वेदे- -अ० ७ अ० ७ ० ६ मं० ३ )
‘बृहती जागतस्त्रयश्च गायत्राः ' ( पि० सू० ३।२६ ) इत्यनेनैव गतार्थमेतत् । संज्ञाविशेषप्रदर्शनार्थं पुनरुच्यते ॥
चिनवकाश्चत्वारः । ३ । ३३ ॥
क्वचिद्वेदे नवाक्षराश्चत्वारः पादा दृश्यन्ते, सापि बृहत्येव ।
१. ‘मत्सीय' ‘वृषण' इति पूर्त्या विराट्त्वाद्वा न दोषः । २. 'मर्तीयम्' इति पूर्तिः । ३. ‘यदि जागतः पादः पुरो भवति, अन्ते च त्रयो' इति लिखितपुस्तकयोः । ४. 'असामिया' इति पूरणात्पादपूर्तिः । ५. कचिदिति हि प्रयोगाल्पत्वं सूच्यते इति पइगुरुशिष्यः ।