SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः] छन्दःशास्त्रम् । आद्यं चतुष्पातुभिः । ३॥ ८॥ 'ऋतु'शब्देन लक्षणया षडक्षरः पादोऽभिधीयते । तैः पादैश्चतुष्पादं गायत्रं छन्दो भवति । एवं चतुर्विंशत्यक्षराणि संपद्यन्ते । यथा ['दोषो गाय बृहद् (१) गाय घुमद्धेहि (२)। आथर्वण स्तुहि (३) देवं सवितारम् (१)"] (अथ० सं० कां० ६ सू० १० १) क्वचित्रिपादृषिभिः।३।९॥ . . क्वचिद्वेदे सप्ताक्षरोपलक्षितैः पादैस्त्रिभिर्गायत्र्येव भवति । एवमेकविंशत्यक्षराणि जायन्ते । यथा... 'युवाकु हि शचीनां (१) युवाकु सुमतीनाम् (२)। भूयाम वाजदानाम् (३) । (ऋग्वेदे-अ० १ अ० १३० ३२ मं०४) सा पादनिवृत् । ३।१०॥ सैव गायत्री 'पादनिवृत्' इति संज्ञां लभते । प्रयोक्तुरदृष्टाभ्युदयसंबन्धज्ञापनार्थमियं संज्ञा वेदस्यानादित्वान्महत्त्वेऽपि च न दुष्टेति ॥ षट्सप्तकयोमध्येष्टावतिपादनिचत् । ३।११॥ प्रथमः षडक्षरः, द्वितीयोऽष्टाक्षरः, तृतीयः सप्ताक्षरः। एवं त्रिभिः पादैर्या गायत्री सा 'अतिपादनिवृत्' इति संज्ञां लभते। 'त्रिपात्' इत्यनुवर्तनीयम् । यथा [प्रेष्ठं वो अतिथि (१) स्तुषे मित्रमिव प्रियम् (२)। अग्निं रथं न वेद्यम् (३) ॥' (ऋग्वेदे-अ० ६ अ० ६ ० ५ मं० १)] द्वौ नवको षट्कश्च नागी । ३ । १२॥ द्वौ नवाक्षरौ पादौ, षडक्षरस्तृतीयः। एवं त्रिभिः पादैः 'नागी' नाम गायत्री भवति । यथा-- अग्ने तमद्यावं न स्तोमः (१) ऋतुं न भद्रं हृदिस्पृशम् (२)। ऋद्यामी त ओहै: (३) । (ऋग्वेदे-अ० ३ अ० ५ व० १० मं०१)] १. आंद्यमस्मिन्नध्यायेऽनुक्रान्तेषु प्रथमम्, सकलच्छन्दसामादिभूतं च । 'गायत्री प्रथमा छन्दसाम्' इति शतपथश्रुतेः । गीतासु च खयं साक्षाद्भगवता 'गायत्री छन्दसामहम्' (१०।३५) इत्युक्तत्वात् प्रधानभूतं चेति षड्गुरुशिष्यः॥ ईदृशस्य गायत्रीछन्दसःप्रायो वेदेष्वदर्शनात् , उत्तरत्र लक्षितस्य सप्ताक्षरपादत्रयोपेतस्य दाशतय्यादौ बहुलमुपलम्भात् , गायत्र्यात्रिपात्त्वस्यैव सर्वत्र प्रसिद्धेश्चात्र 'आवं चतुष्पादृतुभिः क्वचित्' इति सूत्रविभाग एव युक्तः । 'लक्ष्यानुसारि हि लक्षणम्' इति न्यायात् । २. शौनककात्यायनमते त्वियं पदपतिः। पादाश्च पञ्च, आदितलंयः पञ्चाक्षराः, . चतुर्थश्चतुरक्षरः, अन्त्यः षडक्षर इति । छ. शा. २
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy