________________
१४
काव्यमाला ।
विपरीता वाराही । ३ । १३ ॥
इयमेव नागी गायत्री विपरीता यदा भवति तदा 'वाराही' नाम भवति । प्रथमः षडक्षरः पादो, द्वितीयतृतीयौ नवाक्षरौ । यथा
•
['वीतस्तु॑के स्तुके (१) यु॒वम॒स्मासु निय॑च्छतम् (२) ।
य॒ज्ञप॑र्ति तिर (३) ॥' ( तै० आ० प्रा० ३ अ० ११ मं० २०
•)]
षट्सप्तकाष्टकैर्वर्धमाना | ३ | १४ ॥
षडक्षरः प्रथमः पादः, द्वितीयः सप्ताक्षरः, तृतीयोऽष्टाक्षरः । एवं त्रिभिः पादैः 'वर्धमाना' गायत्री भवति । यथा
'त्वम॑ग्ने य॒ज्ञानां॒ (१) होता॒ विश्वे॑षां ह॒ितः (२) ।
दे॒वेभि॒र्मानु॑षे॒ जने॑ (३) ॥' ( ऋग्वेदे - अ० ४ अ० ५ व० २१ मं० १) विपरीता प्रतिष्ठा । ३ । १५ ।।
सैव वर्धमाना गायत्री विपरीता यदा भवति तदा 'प्रतिष्ठा' नाम गायत्री भवति । रः प्रथमः पादः, द्वितीयः सप्ताक्षरः, षडक्षरस्तृतीयः । यथा
'आप॑ पृणीत मे॑ष॒जं (१) वरू॑थं त॒न्वे॒
मम॑ (२) ।
ज्योक्च॒ सूर्य॑ ह॒शे (३) ॥' (ऋग्वेदे - अ० १ अ० २ ० १२ मं० १ ) तृतीयं द्विपाञ्जागतगायत्राभ्याम् । ३ । १६ ।। तृतीयशब्देनैतदध्यायस्थसूत्रपाठक्रमापेक्षया विराजमाह । तथा चोक्तम्- 'विराजी दिशः' (पि० सू० ३।५ ) इति । यदा द्वादशाक्षरोऽष्टाक्षरश्च पादः स्यात्, 'द्विपाद विराड्' नाम गायत्री भवति । यथा-
ततस्ताभ्यां
'नृभि॑र्येमानो ह॑र्य॒तो वि॑िचक्ष॒णो (१) राजा॑ दे॒वः स॑मु॒द्वय॑ः (२) ॥' ( ऋग्वेदेदे - अ० ७ अ० ५ व० १५ मं० १ )
१. 'पर' इति व्यूहान्नवाक्षरत्वम् । उदाहरणान्तरं मृग्यम् ।
२. प्रातिशाख्ये वर्धमानाया भेदान्तरमपि दृश्यते - 'अष्टकौ मध्यमः षट्क एकेषामुपदिश्यते ।' (१६।२२) इति । उदाहरणं तु
'निष॑साद धृतव॑ति॒ो (१) वरु॑णः प॒स्त्या॑च॒ स्वा (२) ।
3
साम्रा॑ज्याय॑ सु॒क्रतु॑ः (३) ॥' (ऋ० सं० अ० १ अ० २ १० १७ मं० ५ ) तृतीयो व्यूहेनाष्टाक्षरः ।
३. अत्र क्रमोऽविवक्षितः । जागतग्रहणं च त्रैष्टुभस्याप्युपलक्षकम् । तेन‘वसु॑र॒ग्निर्व॑सु॒श्रवा॒ (1) अच्छनक्षि द्यु॒मत॑मं र॒र्यदा॑ः (२) ॥'
(ऋ० सं० अ० ४ अ० १ ० १६ मं० २ ) इत्यादीनामपि सङ्ग्रहः । यद्यपि भूम्ना विराडाख्यं स्वतन्त्रमेव छन्दः श्रूयते, तथापि घवार्थमस्य मेदानां तत्र तत्रान्तर्भावः सप्तच्छन्दोवादावष्टम्भेन विहित इति बोध्यम् ।