SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ एनं छन्दांसि पापात्कर्मणः' इत्यादिषु गोपनं च ११, इत्येवमनेके विषयाश्छादनस्य भवन्ति । न चैतेषु छावस्यान्तर्धानमेव दृष्टमयाप्यनुवर्तते स आच्छादनशब्दः । तदित्यं सिद्धेऽनकायें यदिदं गोपनापरपर्यायमाच्छादनं रक्षाभिप्रायं तदिहावच्छेदकानुगतं द्रष्टव्यम् ॥ अवच्छेदावच्छिनस्य खरूपतोऽप्रच्यवनेन सुगुप्तत्वात् ॥ अथान्यः प्रत्यवतिष्ठते-नेदमनैकार्थ्य युक्तम् ; प्रकरणोपलभ्यार्थे शक्तिस्वीकारानगवश्यकत्वात् । वस्तुतस्तु अपवारणे छादयतिः प्रतिपनः । तच्च द्विविधम्-एकदिग्वतित्वे आवरणमथानेकदिग्वर्तित्वे संवरणं च । इदं च संवरणं वस्तुतः खरूपाननुगतमपि द्वेधा-पृथरदृष्टमपृथग्दृष्टं च । तथा हि-मेघच्छत्रभित्त्यादीनामावरकत्वेनोपसंवीतघटादीनां बहिरवस्थानां दिग्देशकालसंख्यापरिमाणादीनां व्याप्यवर्तिनां च संवरकत्वेन प्रतिपत्तिः । अनेकदिग्वर्तिनोऽप्येकदिग्वर्तित्वाव्यतिरेकात् संवरणेऽप्यावरणशब्दो लब्धावसर इत्यन्यदेतत् । उभयोरेवानयोदृष्टिसम्बन्धप्रतिबन्धकत्वमेवाच्छादनशब्दप्रवृत्तिनिमित्तम् । प्रतिबन्धकतावच्छेदकं च दृग्दृश्यान्तरालवर्तित्वं व्यवधानापरपयोयम् । मेघच्छन्नेऽहीत्यत्राहःशब्दस्याहःप्रवर्तकसूर्यपरतया सूर्याशुपरतया वा विव. क्षणात्तददर्शन मेघावरणप्रयोज्यं द्रष्टव्यम् । ईशावास्यमित्यत्र तु नागमाच्छादनकर्मा बसिधातुः, किंतु निवासार्थः; 'तत्सृष्ट्वा तदेवानुप्राविशत्' 'नेन्द्राहते पवते धाम किंचन' इत्यादिश्रुत्यन्तरैकवाक्यतया सर्वत्रैवास्य विद्यमानत्वे तत्तात्पर्यात् । अथवाअस्त्वेवाच्छादनार्थः । तात्त्विकदृष्टेमहर्यत्र यत्रैव दृष्टिः प्रवर्तते, तत्र तत्रैव परमेवरादन्यन दृश्यते-इत्येकस्य तस्य । द्वैतदृष्ट्यपवारकत्वेन विवक्षणादाच्छादकत्वोपपत्तेः । एतेन 'आच्छाद्यते त्वद्यशसा समस्तम्' इत्यादयो व्याख्याताः । 'गूढालंकारवाक्येऽर्थः प्रच्छन्नः' इत्यादावप्यनुभवात्मकदृष्ट्यपवारणादेवार्थस्य तत्त्वमुपपद्यते-इति.विवेक्तव्यम् । तथा च छन्नाच्छादितादीनां प्रतिबद्धदर्शनार्थकत्वादवच्छेदावच्छिन्नानां चानवरुद्वदर्शनत्वेनाभिप्रेतत्वान्नावच्छेदानाच्छादकत्वम् , अनाच्छादकत्वाच्च नावच्छेदश्छन्द इति चेत् ; अत्रोच्यते-नैकान्ततस्तावद् दृगवरोधकस्यैवाच्छादकत्वं वक्तुं शक , एकान्ते स्थितवता पुंसां छने स्थाने तिष्ठाम इति प्रतिपत्तिदर्शनात । 'न च वर्षातपात् कृच्छं छत्राच्छादितवम॑णः', इत्यादौ च सर्वात्मना दृश्यमानस्यापि पुंसश्छत्रछन्नत्वोपचारात् । एवं दृष्टिप्रतिवन्धनैरपेक्ष्येऽपि केवलं वर्षातपावश्यायाधवरोधकानां गृहच्छदीनां चन्द्रातपादीनां वाच्छादकत्वमुपचर्यते । अत एव च 'काचेनाच्छादिते दीपे न लब्धावसरोऽनिलः' इत्येवमादयो व्यवहारा अपि सिद्धार्थाः । तस्मादितरसंबन्धापवा- रकत्वमेवाच्छादकत्वमिति निष्कर्षः । विशेषधर्मावच्छिन्ने शक्तिमभ्युपगम्य विशेषान्तरे लाक्षाणिकत्वखीकारापेक्षया सामान्यधर्मावच्छिन्ने शक्तिखीकारस्य न्याय्यत्वात् । इतरलं च कचिद् दृष्टेः, कचित्त नाष्ट्राख्यानां प्रतिविघातकानामनाम् । तत्र रष्टिसंपन्यापधारणे छलस्य गुप्तत्वमप्रकाशात्मकं गूढस्वापरायम् । दोषसंबन्धापवा (1) माr-ति वमन्त्री पहुधा प्रयुक्तो विकरायः कार्यनायक विमे सस..
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy