________________
न एमा
छन्दस्त्वस्य तेषु वचनतः सिद्धेः । संख्यादिपरिच्छेदे माशब्दस्य, तत्तदायतनभूतायामाशयपदवाच्यायां वस्तुप्रतिष्ठायां प्रमाशब्दस्य, तुलितके च प्रतिमाशब्दस्य व्याख्यास्यमानत्वात् । नन्वेवं तर्हि तदुभयवचनप्रामाण्यान्मानत्वं प्रतिष्ठात्वं तुलितकत्वमथाच्छादकत्वं चैतानि शक्यतावच्छेदकानि स्युः! न त्वेतावतापि मानाद्यवच्छेदानामाच्छादकत्वं सिखतीति चेत्न, 'यदेभिराच्छादयन् तच्छन्दसां छन्दस्त्वम्' इत्येवमा दीनां छादकत्वस्यैव छन्दःपदप्रवृत्तिनिमित्तत्वमभ्युपगत्रीणां श्रुतीनां छन्दःपदाभिधेयेषु तेष्ववच्छेदेष्वाच्छादकत्वस्यास्तित्वबोधने एव तात्पर्यावसायात् । तत्तर्हि कीदृगाच्छादकत्वमवच्छेदानामिष्टमिति चेत्, नेतरदितराच्छादकधर्मादिति गृहाण । ननु च भोःयेनैव सता तदस्तुखरूपं न प्रतिपद्यते, तिरोहितं भवति, तस्मिनन्तर्धानप्रधाने संवरणे आच्छादनशब्दो दृष्टः । 'घटाच्छादितः प्रदीपः, वस्त्राच्छादितं द्रव्यम् , रजसाच्छादिते भानौ, ‘खनयुगपरिणाहाच्छादिना वल्कलेन,'
'न हया न रथो वीर! न यन्ता मम दारुकः । ... अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥' (म. भा. वन. २०।२४)
इत्यादिषु दीपादीनां घटादिद्रव्य॑स्तिरोधानेनाप्रतिपत्तिदर्शनात् । प्रकृते पुन तदेवं दृदयते । न चावच्छेदेन सता तदवच्छिन किंचिदन्तर्धत्ते, तस्मादनाच्छादका अव. च्छेदाः प्रतिपद्यन्ते-इति चेत्सत्यम् । उच्यते न केवलमन्तर्धानमेवाच्छादनशब्दस्य विषयः, किं तर्हि बहवो विषयास्तच्छब्दस्योपलभ्यन्ते । तथा हि-'अन्नाच्छादनभाग
यम्', 'आच्छाद्य चाहयित्वा च श्रुतशीलवते खय'मित्यादिषूपसंव्यानम् १, 'आभूषाणा• च्छादिताङ्गी' 'छदयति सुरलोकं यो गुणैर्य र युद्धे सुरयुवतिविमुक्ताश्छादयन्ति सजश्च ।' इत्यादिषु पर्याधानम् २, 'चन्दनच्छन्नगात्रः', 'तैलाच्छन्नं कलेवरम्', 'घृतान्छन्नं व्यजनम्' इत्यादिषु चर्चितकत् ३, 'मेघच्छन्नेऽह्नि दुर्दिनम्', 'कण्टकच्छन्नमार्गेषु' इत्यादि. ष्ववरोधः ४, 'ईशावास्यमिदं सर्वम्', 'आच्छाद्यते त्वद्यशसा समस्तम्' इत्यादिषु व्याप्तिः ५, 'छादयनाननं वेगैरर्दयभजनैः । निरुच्यते छर्दिरिति दोषो वकं प्रधावितः ॥ (सुश्रुतः) इत्येवमादिषु दूषितकरणम् , 'निचितं तु हंसपक्षैः कृकवाकुम यूरसारसानां च । दौकूलेन नवेन तु समन्ततश्छादितं शुक्लम् ॥ दण्डार्धविस्तृतं तगमावृतं रत्नभूषितमुदनम् ॥ नृपतेस्तदातपत्रं कल्याणकरं विजयदं च ॥ अन्येषामुष्णनं प्रसादपटैर्विभूषितशिरस्कम् । व्यालम्बिरत्नमालं छत्रं कार्य च मायूरम् ॥ (बृहसं. हिता।) इत्येवमादिषु खरूपकरणम् ७, 'अमिमन्तश्छादयसि' (अथ. ९।३।१४), 'अनं छादयेदाज्येन' (कात्यायनश्रौतसूत्रम् ४।६।५) इलेवमादिषूर्जनम् ४, ‘छन्ने स्थाने समासीनः' इत्यादिषु विविक्तम् ९, 'गर्गश्च गोकुले तत्र वसुदेवप्रणोदितः । प्रन्छन गय गोपानां संस्कारानकरोत्तयोः ॥' (विष्णुपु. ५. अं. ६ अ.) इत्यावज्ञानत्वम् १०. 'गायत्रेण छन्दसा त्वा छादयामि, त्रैष्टुमेन छन्दसाः त्वा छादयामि, छादयन्द्रिह वा