SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ । काव्यमाला। उक्तलक्षणमेव साक्षरनियममाह मत्त चउद्दह पअ पअह एग्गारह वण्णोहि । दह अक्खर उत्तरदलहि हाकलिछंद कहेहि ॥ १४ ॥ [मात्राश्चतुर्दश पदे पदे एकादशभिर्वणः । दशाक्षराण्युत्तरदले हाकलिच्छन्दः कथय ॥] यत्र मात्राश्चतुर्दश पदे पतन्ति, एकादशवर्णैश्च पूर्वदलम् , दशाक्षरैरुत्तरदलं यत्र त. द्धाकलिच्छन्दः कथय ॥ वाणीभूषणे त्वक्षरनियमो नोक्तः । 'द्विजगणसगणभगणकलिता, भवति चतुर्दशकलकलिता । अन्ते गुरुमुपधाय सदा, हाकलिरेषा भवति तदा ॥' इदमप्युदाहरणम् ॥ तामुदाहरति-जहा (यथा) उच्चउ छावणि विमल घरा तरुणी घरिणी विणिअपरा। वित्तकपूरल मुंदहरा वरिसासमा सुक्खकरा ॥ [उच्चा छदिविमलं गृहं तरुणी गृहिणी विनयपरा । वित्तपूरितं मूलगृहं वर्षासमयाः सुखकराः ॥] उच्चा छदिः विमलं गृहं विनयपरा तरुणी चेगृहिणी यस्य वित्तैः पूरितं मूलगृहं तस्य वर्षासमयाः सुखकरा भवन्ति । इति दरिद्रवचनं वयस्यं प्रति । उद्ववणिका यथाSIISIIIIIIS, Iisilsins, SIISIISIIS, IISSIISIIS. अथ मधुभारच्छन्द: जसु पलइ सेक्ख पअहर एक । चउमत्त तेअ महुभार एअ ॥ १३५ ॥ [यस्य पतति शेषे पयोधर एकः । चतुर्मात्रिकास्त्रयो मधुभार एषः ॥] यस्य पतति शेषे दलद्वयान्ते पयोधर एकः । जगण एकः। पततीत्यर्थः । तत्पश्चाच्चतुमांत्रिका गणास्त्रयो यत्र तन्मधुभारच्छन्दः । वाणीभूषणे तु गणनियमो यद्यपि दर्शितस्तथापि चतुष्कलमात्रे पर्यवसन्नो ज्ञेयः । 'सगणं निधाय जगणं विधाय । श्रुतिसौख्यधाम मधुभारनाम ॥' इदमप्युदाहरणम् ॥ तामुदाहरति—जहा (यथा) जसु चंद सीस पिंधणह दीस | सो संभु एस तुह सुब्भ देऊ ॥ १. 'सुक्ख' रवि०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy