________________
१ परिच्छेदः]
प्राकृतपिङ्गलसूत्रम् ।
८१
हे मित्र, राजा [लु]ब्ध:, समाजः खलः, वधूः कलहकारिणी, सेवको धूर्तः, एवं सति यदि जीवनं सुखरूपं प्रार्थयसे तर्हि गृहं परिहर । विरज्य संन्यासं कुरु । इति कंचिद्गृहस्थं प्रति मित्रमाह । उट्टवणिका यथा – sss, ॥s, ॥, ॥, ॥s, I, ISII, s॥s, ॥, ॥, ॥॥॥, ॥, I, ISII, इति पद्मावतीछन्दः ॥
अथ सोरट्ठा छन्द:
सो सोर
जाण जं दोहा विपरीअ ढिr |
पअ पर जमक बखाण णाअराअ पिंगल कहइ || १३२ || [तां सोरठ्ठां जानीहि या दोहा विपरीता स्थिता |
पदे पदे यमकं व्याख्याहि नागराजः पिङ्गलः कथयति ॥]
तां सोरट्ठां जानीहि । या विपरीतैव दोहा स्थिता । तत्र च पदे पदे यमकं व्याख्येहि । इति नागराजपिङ्गलः कथयति । प्रथमचरणे एकादश, द्वितीये त्रयोदश, तृतीये एकादश, चतुर्थे त्रयोदशेति । भूषणेऽप्युक्तम्- 'तत्सोरहावृत्तममलमुरगपतिरिति वदति । यद्दोहाविपरीतमिह जनहृदि मुदमुपनयति ॥ इदमप्युदाहरणम् ॥
तामुदाहरति - जहा (यथा ) -
सोमाणि पुणवंत जासु भत्त पंडिअ तनअ |
जासु घरिणि गुणमंति सो वि पुहवि सग्गहणिलअ || [ स मान्यते पुण्यवान्यस्य भक्तः पण्डितस्तनयः ।
यस्य गृहिणी गुणवती सोऽपि पृथिव्यां स्वर्गनिलयः ॥ ] कश्चित्कस्मैचिच्छ्राघते – स एव मान्यते पुण्यवान् यस्य तनयो भक्तः, अर्थात्पितुः, पण्डितश्च । यस्य च गृहिणी गुणवती स तु पृथिव्यामपि वर्तमानः स्वर्गनिलयोऽमरो भवति । उवणिका यथा -- SS IS | ( ११ ) ||||||| ( १३ ) 5||||||| ( ११ ) SINISII (93). अथ हाकलिछन्द:
सगणा भगणा दिअगणइ मत्त चउद्दह पअ पलइ |
ics को विरइ जहा हाकलिरूअह एहु कहा ॥ १३३ ॥ [ सगणो भगणो द्विजगणो मात्राश्चतुर्दश पदे पतन्ति ।
संस्थाप्य वक्रं विरतौ यथा हाकलिरूपमिदं कथितम् ॥]
यत्र सगणो गुर्वन्तश्चतुष्कलः भगणो गुर्वादिः, द्विजगणश्चतुर्लघ्वात्मकश्च । अत एव व्यस्तसमस्ता गणा भवन्ति । अन्ते वक्रं गुरुमेकं संस्थाप्य मात्राश्चतुर्दश मिलित्वा वर्णाचैकादश पदे पदे उत्तरार्धे दश पतन्ति, तदिदं हाकलिच्छन्दोरूपं कथितम् । इदमप्युदाहरणम् ॥
११