SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ८० काव्यमाला । दानीमपि नायाति । अतः किं विधेयमुपदिशेति व्यज्यते ॥ उवणिका यथा ॥॥॥, ॥l, I, I, II, II, II, II, III, SIS, SS, (84) SII, SII, IIS, IIS, IIS, SIS, S (२७). अथ चुलिभलाछन्द: चुलि आलापइ देह किमु दोहा उप्परि मत्तह पंचइ | पअपअ उप्पर संठवहु सुद्ध कुसुमगण अंतह दिज्जइ ॥ १३० ॥ [ चुलिआलाप देदीयन्ते किमु दोहोपरि मात्राः पञ्च । पदे पद उपरि स्थापयन्तु शुद्धः कुसुमगणोऽन्ते दीयते ॥] तच्चुलिआलानामकं छन्दः । यदि दोहाया उपरि पञ्च मात्रा अधिका दीयन्ते । तदेवाह - पदे पदे उपरि शुद्धः कुसुमगण एको लघुः, ततो गुरुः, ततो लघुद्वयम् । एवंरूपं पञ्चकलं स्थापयन्तु । ' पदे पदे' इत्युक्ते दोहापदचतुष्टयेsपि पञ्चकलदानं आह - सपञ्चकलो गणोऽन्ते द्विपदाप्रथमदलान्ते चरमदलान्ते च दीयते । एतेनार्धे ऊनत्रिंशन्मात्रा भवन्ति । एवं दलाभ्यामष्टपञ्चाशन्मात्रा थुलि आलाछन्दसो भवन्ति ॥ इदमप्युदाहरणम् ॥ उक्तलक्षणमेवाह— . दोहासंखा संठबहु उपरि पंचइ मत्त । अट्ठदह वीस दुइ चुलिआला उक्त्ति ॥ १३१ ॥ [दोहासंख्यां संस्थापयन्तु उपरि पञ्च मात्राः । अष्टादशोपरि विंशतिद्वयं चुलिआलाख्याता ॥] दोहासंख्यां संस्थापयन्तु । उपरि पञ्चैव मात्राः । एवमष्टादशोपरि चत्वारिंशन्मात्राः संभूयाष्टपञ्चाशन्मात्राभिश्चुलिआला आख्याता ॥ भूषणेऽपि - 'दोहादल शेषे यदा पश्चकलो विमलो हि विराजति । फणिवरनृपतिः किल तदा चुलिआलामिह तामनुगायति ॥' इदमप्युदाहरणम् ॥ तामुदाहरति - जहा (यथा ) - राभा लुद्ध समाज खल बहु करिहारिणि सेवक धुत्तउ । जीअण चाहसि सुक्ख जइ परिहरु घर तइ बहगुणजुत्तउ || [राजा लुब्धः समाजः खलः वधूः कलहकारिणी सेवको धूर्तः । जीवनं प्रार्थयसे सुखं यदि परिहर गृहं तहिं बहुगुणयुक्त [I] १. एतट्टीकानिर्माट-लक्ष्मीनाथलिखितवाणीभूषण पुस्तके 'चुँलिआला' इति सानुनासिकः पाठ उपलभ्यते, अन्यत्र 'वुलिआ, वुलिआलावा' इति पाठभेदः.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy