________________
१ परिच्छेदः]
प्राकृतपिङ्गलसूत्रम् ।
CONDENS
७९
अथ मालाछन्द:
पढमचरण ससिवअणि मिअणअणि णव दिअगण पअल पुण वि
तह रअण ठवहु अंतर कण्णो ।
पिंगलणाअ भणता माला सेसं पि गाहस्स ॥ १२८ ॥
[ प्रथमचरणे शशिवदने मृगनयने नव द्विजगणाः पतन्ति पुनरपि तथा रगणं स्थापयतान्ते कर्णः ।
पिङ्गलनागो भणति मालां शेषमपि गाथायाः ||]
हे शशिवदने, हे मृगनयने, कर्णो गुरुद्वयात्मको गणो भवति । शेषं द्वितीयचरणं गाथाया अर्ध यस्मिंस्तन्मालाछन्दः पिङ्गलनागो भणति ॥ इदमप्युदाहरणम् ॥ उक्तलक्षणमेव दोहाच्छन्दसाह—
पढम होइ णव विप्पगण जोहल कण्ण ठवेहु । गाहा अद्धा अंत दइ मालाछंद कदेहु ।। १२९ ॥ [ प्रथमं भवन्ति नव विप्रगणा जोहलं कर्ण स्थापयत ।
गाथाया अर्धमन्ते दत्वा मालाछन्दः कुरुत ||]
यत्र प्रथमं नव विप्रगणाः ततो जोहलं रगणः पुनर्गुरुद्वयम् । एवं पञ्चचत्वारिंशन्मात्राः, पश्चगाया अर्ध सप्तविंशतिर्मात्राः उत्तरार्धे यत्र तन्मालाछन्दः ॥ तथा चोक्तं वाणीभूषणे – 'द्विजवरनवगणमतिशय सुरुचिरमिह कुरु तदनु रगणमपि कलय कमलमुखि कर्ण - वच्छेषे ॥ अपरदलं गाथाया मालावृत्तं विचित्रं तत् ॥' इदमप्युदाहरणम् ॥
तामुदाहरति — जहा (यथा ) -
वरस जल भ्रमइ घण गअण सिअल पवण मणहरण कणअपिअरि णच विजुरि फुल्लिआ णीवा ।
पत्थरवित्थरहिअला पिअला णिअलं ण आवेइ ||
[वर्षति जलं भ्रमति घनो गगने शीतलः पवनो मनोहरणः कनकपता नृत्यति विद्युत्फुल्लिता नीपाः ।
प्रस्तरविस्तारहृदयः प्रियो निकटं नायाति ॥]
काचित्प्रोषितभर्तृका वर्षासमयमालोक्य सखीमाह - हे सखि, वर्षति जलम् । भ्रमति घनः । शीतलः पवनो मनोहरणः । वहति इति शेषः । किं च [क]नकपीता नृत्यति विद्युत् । नीपाः [फुल्लिता: ] एवंविधेऽपि समये जाते प्रस्तरविस्तारहृदयो महापाषाणहृदयः प्रिय इ१. 'पवित्रम्' इति वाणीभूषणस्थः पाठः.