________________
काव्यमाला ।
[शशिवदने गजगमने पदे पदे द्विजगणष्टुं पयोधरेण सशिखम् । पठ प्रथमं द्वाभ्यां द्वाभ्यां लघुभ्यां प्रकटितो द्विजगणोऽधिको जगणो दले
भणति तां शिखाम् ॥]
.७८
हे शशिवदने, हे गजगमने, यत्र पदे पदे द्विजगणषट्कं भवति । तदुपरि पयोधरेण जगणेन सशिखम् । उपरिस्थितजगणमित्यर्थः । एवंविधं प्रथमदलं पठ । पश्चाद्द्वाभ्यां द्वाभ्यां लघुभ्यां प्रकटितोऽधिक एको द्विजगणो लभ्यते । तेन द्वितीये दले सप्तविप्रगणानन्तरं यत्र जगणो भवति स इति प्रसिद्धः । शेषस्तच्छिखानामकं छन्दो भणति । इदमप्यु. दाहरणम् ॥
उक्तलक्षणमेव गाहूछन्दसाह -
मत्त अठाइस पढमे बीए बत्तीस मत्ताइ ।
पअ प अंते लहुआ सुद्धा सिखा विहाणेहु ॥ १२७ ॥
[ मात्रा अष्टाविंशतिः प्रथमे द्वितीये द्वात्रिंशन्मात्राः ।
पदे पदेऽन्ते लघुका शुद्धां शिखां विजानीत || ]
यत्राष्टाविंशतिर्मात्राः प्रथमे दले भवन्ति । द्वितीयदले द्वात्रिंशन्मात्रा: । पदयोरन्ते लधुर्यत्र तच्छुद्धं शिखाछन्दो विजानीत ॥ भूषणेsपि - 'द्विजवरमिह हि रसगुणितमुपनय तदनु जगणमपि विधेहि | स्वरगणितमिह परदलमधिकुरु फेणिनरपतिसुभणितरुचिरशिखा हि ॥ इदमप्युदाहरणम् ॥ तामुदाहरति - जहा ( यथा) -
फुल्लिअ महु भमरहु अणिपहु किरण बहु अवअरु वसंत | मलअगिरिकुहुर धरि पवण वह सह वत भण सहि णिअल म णहि कंत ॥ [ पुष्पिता मधुका भ्रमरा रजनिप्रभोः किरणा बहवोऽवतरति वसन्तः । मलयगिरिकुहरं धृत्वा पवनो वहति सहे बत भण सखि निकटे मे नहि कान्तः ॥ ]
काचित्प्रोषितभर्तृका सखीमाह - हे सखि, पुष्पिता मधुका भ्रमराः । स्थिताः पुष्पेषु इति शेषः । किंच रजनीप्रभोश्चन्द्रस्य किरणा बहवो विशेषतः अव इदानीं पुनर्वसन्त इत्यतः । परमसंतापका इति भावः । अथ च मलयाचलकटककोटरमभिव्याप्य पवनो वहति । अतएवैतत्सर्व सोढव्यं कथमिति त्वमेव भण । निकटे नास्ति कान्तः । अतो यदुचितं भण ॥ उवणिका यथा ॥॥॥, ॥॥॥, ॥॥॥, 11, 11, 11, 15], [, [, [, III, II, III, ISI.
-
१. ' मुनिगुणितमपर-' इति भूषणस्थः पाठः २. 'वरफणि-' इति भूषणस्थः पाठः .