________________
७७.
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
[दलद्वये नव पतन्ति विप्रगणा जोहलमन्ते स्थापयतु ।।
मात्रा एकचत्वारिंशत्खञ्जापदे दश गणास्तत्र जानीत ॥] यदत्र दलद्वये नव गणा विप्राश्चतुर्लध्वात्मकाः पतन्ति । अन्ते जोहलं रगणं स्थापयतु । संभूयैकचत्वारिंशन्मात्राः खञ्जाछन्दसः पतन्ति गास्तत्र दश पतन्तीति जानीत । भूषणेऽपि-'द्विजवरनवगणमुपनय तदनु च विमलकमलदलमृदुलसुतनु रगणमिह खञ्जके । द्विदलममलमिति फणिवरनरपतिनिगदित[मिद]मतिशयगुणसहृद[यहृदयसु]रअके ॥ इदमप्युदाहरणम् ॥
तामुदाहरति-जहा (यथा)अहि ललइ महि चलइ गिरि पलइ [हर खलइ] ससि घुमइ अमिअ
व[म]इ मुअल] जिवि वुट्ठए । पुणु तलइ पुणु [खलइ पुणु ललइ] पुणु घुमइ पुणु वमइ जिविअ विविह
परिसमर दिट्ठए ॥ [अहिर्ललति मही चलति गिरिः पतति [हरः स्खलति] शशी घूर्णते अ
मृतं वमति मृता जीवित्वोत्तिष्ठन्ति । पुनस्तरति पुनः स्खलति पुनर्ललति पुनर्पूर्णते पुनर्वमति जीविता विविधा __ परितः समरे दृष्टाः ॥]
कस्यचित्समरमनुवर्णयति-परकटकभारेणाहिः शेषो ललति चलति । स्थानभ्रष्टो भवतीत्यर्थः । अतएवावष्टम्भकाभावान्मही चलति । तस्मादेकगिरिः कैलासः पतति । तदाश्रयो हरः स्खलति । अत एव शशी घूर्णते। घूर्णनेनामृतं वमति । अतोऽमृतसंपर्कादेव मृता अपि सुभटा जीवित्वोत्तिष्ठन्ति । ततश्च भमिस्तादृशभारवती भवति । अतः शेषाहिः पुनरपि तरति । पुनः स्खलति । पुनर्ललति । पुनर्पूर्णते । पुनर्वमति । पुनश्च जीविता विविधाः परितः समरे दृष्टा भटाः । अत्र महीचलने शेषचलनं हेतु: । कैलासपतने महीचलनमित्युत्तरोत्तरं प्रति पूर्वस्य हेतुत्वमिति अलंकारः । उदृवणिका यथा-m, , ,
, , , , , , SIS (४१) ,m, m, , , , , , m, SIS (४१)=(८२). . __ अथ सिक्खा(शिखा)छन्दःससिवअणि गअगमणि पअ पअ दिअछगण पअहर ससिख । पेढ पढम लहु विविह पअलि दिअगण अहिअ जअल दल भणइ स
सिख ॥ १२६ ॥
१. 'हर खलइ' इत्येकस्मिन्पुस्तके न वर्तते. २. 'पढम विविहिलहु' इति रविकरसंमतः पाठः, 'प्रथमतो विविधलघून्' इति तच्छाया.