________________
७४
काव्यमाला।
लीनः । परित्यज्य कुअरान् । खुरासानाधिपती रणमध्ये खुहिअ विक्षोभं प्राप्य अहितसागरं लहते स्म । यद्वा अधिकं यथा स्यात्तथा । हम्मीरे चलिते सति हारावो रिपुषु कातरेषु पतितः । उद्ववणिका यथा-su,m, si, , Ish, ISI, S, su, su, m, su, m, ॥s, is, us, su, , , us, usi, s, ss, II, Isi, , , , si, s. अथ द्विपदीछन्दः
आइग इंदु जत्थ हो पढम हि दिज्जइ तिणि धणुहरं तह पाइकजुअल परिसंठवहु विधिविचित्तसुंदरं । सरसइ लइअ पसाउ तह पुहमी करह कइत्त कइअणा महुरचरणअंत लइ दिज्जसु दोपैइ मुणहु कुहअणा ॥ १२१॥ [आदिग इन्दुर्यत्र भवति प्रथमं हि दीयन्ते त्रयो धनुर्धराः, तथा पदातियुगलं परिसंस्थापयन्तु विधिविचित्रसुन्दरम् । सरखत्या गृहीत्वा प्रसादं तत्र पृथिव्यां कुरुत कवित्वं कविजनाः
मधुरचरणमन्ते दत्थ द्विपदी जानीत बुधजनाः ॥] आदिस्थ इन्दुः षट्कलो गणः प्रथमं यत्र भवति । ततो दीयन्ते त्रयो धनुर्धराश्चतुष्कलगणा कत्र । तथा पदातियुगलं चतुष्कलयुगलं परिसंस्थापयन्तु । एवं विधितो विचित्रसुन्दरमिति च्छन्दोविशेषणम् । सरस्वत्याः सकाशात्प्रसादं गृहीत्वा तथा पृथिव्यां कुरुत कवित्वं कविजनाः । मधुरो गुरुस्तं चरणान्ते दत्थ । एतादृशं द्विपदीछन्दो जानीत बुधाः । अनेदं लक्षणद्वयं [द्विप]दीद्वयेन ज्ञातव्यं न तु पदचतुष्टयम् । द्विपदीति नामविरोधात्तथोदाहरणाच । अनेन्दुर्यद्यपि लघुद्वयगुरुद्वयात्मकः (uss)षट्कलस्तथापि षट्कलमात्रोपलक्षकः लक्ष्ये तथैव दर्शनात् ॥ उक्तामेवोटवणिकां दोहाछन्दसा स्पष्टीकृत्याह
छक्कलु मुह संठाविकहु चकलु पंच करेहु । अंतहि एका हार दइ दोवइच्छंद कहेहु ॥ १२२ ॥ [षट्कलो मुखे संस्थापयित्वा चतुष्कलान्पञ्च कुरुत ।
अन्त एकं हारं दत्वा द्विपदीछन्दः कथयतु ॥] षट्कलं मुखे स्थापयित्वा ततश्चतुष्कलान्पश्चगणान्कुरुत । अन्ते च एकहारो गुरुस्तं दत्वा द्विपदीछन्दः कथयतु । भूषणेऽपि-'आदौ षट्कलसंगतमेतत्तदनु पञ्चचतुष्कलम् । गुर्वन्तं द्विपदी भवतीह हि विंशत्यष्टकलदलम् ॥ इदमप्युदाहरणम् ॥
१. एतत्पूर्वे मूलपुस्तके 'अह दोपई' इति पाठो दृश्यते. २. 'भण कइअणा' इति मूलपुस्तकस्थः पाठः. ३. 'मधुकरचरणः षट्कलः' इति रविकरव्याख्यानम्. ४. 'ठवेहु' इति मालपुस्तकस्थः पाठः.