SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ १ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । प्रथमं चतुर्मात्रिको गणः क्रियते गणाः प्रकाशिताः, विंशत्यक्षराणि सकलेषु पदेषु प्रिये गुरुरन्ते प्रकाशितः ॥] मात्राविभूषितमिदं भवत्सु । कथ्यते इति शेषः । अस्य च ज्ञात्वा पदं पदं स्थापयत । अत्र प्रतिपदं विंशतिः कलाः शराधिकाः पञ्चविंशतिः कलाः करणीयाः । लघुगुरुभ्यां शेषिताः । सर्वत्र पादान्ते लघुगुरू दातव्यावित्यर्थः । अत्रैव गणनियममाह-चतुर्ध्वपि चरणेषु प्रथमं मात्राश्चतस्रो यस्मिन्नेतादृशश्चतुष्कलो गणः कार्यः । अग्रे च यथासुखं गणैः प्रकाशितमक्षरनियममाह-विंशत्यक्षराणि सकलेषु पादेषु तथा चरणचतुष्टये च गुरुः, एवं यस्य तद्गगनाङ्गनं छन्द इति । इदमप्युदाहरणम् ॥ उक्तामेवोदृवणिकां स्पष्टीकृत्याह पढमहि चक्कल होइ गण अंतहि दिज्जइ हारु । वीसक्खर गअणंगण भणु मत्त पचीस विआरु ॥ १२० ॥ [प्रथमं चतुष्कलो भवति गणोऽन्ते दीयते हारः । विंशत्यक्षराणि गगनाङ्गनं भण मात्राः पञ्चविंशतिर्विचारय ॥] चतुर्ध्वपि चरणेषु प्रथमं चतुष्कलो गणः । चरणान्ते हारो गुरुर्देयः । अथ(त्र) चाक्षराणि विंशतिः । भण पठ । मात्राः पञ्चविंशतिः । एवं गगनाङ्गनं छन्दो विचारय ॥ दोहा छन्दः ॥ उद्दवणिका यथा-m, susussis, sin, sms, musis, m, SISmsmsis, ss, ॥mmssis, वाणीभूषणे तु मात्रागणनियमोऽन्यथाक्षरनियमो नास्तीत्युक्तम् । यथा--'षट्कलमादौ विरचय शेषे रगणविभूषितं मध्ये नियमविहीनं द्वादशके यतिसंगतम् । । फणिपतिपिङ्गलभणितं कविकुलहृदयरञ्जनं पश्चाधिकविंशतिकलं वृत्तमिदं गगनाङ्गनम् ॥' गगनाङ्गनमुदाहरति-जहा (यथा) भंजिअ मलअ चोलवइ णिवलिअ गंजिअ गुज्जरा, मालवराअ मलअगिरि लुकिम परिहरि कुंजरा । खुरसाणा खुहिअ रणमहँ लंघिअ अहिअ साअरा, हम्मीर चलिअ हारव पलिअ रिउगणह काअरा ॥ [भग्नो मलयपतिश्चोलपतिर्निवृत्तो गञ्जितो गुर्जरपतिमालवराजो मलयगिरौ लीनः परित्यज्य कुञ्जरान् । खुरासानपतिः क्षोभं प्राप्य रणमध्ये लङ्घते स्माहितसागरं हम्मीरे चलिते हारावः पतितो रिपुगणे कातरे ॥] भग्नो मलयपतिः। चोलपतिनिवृत्तः। गञ्जितो गुर्जरपतिः । मालवराजो मलयगिरौ
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy