________________
काव्यमाला ।
दृङ्मार्गे नभस्यन्धकारो धूलिः सूर्यरथमाच्छादयति, दृङ्मार्गे नभस्यन्धकार आनीतः खुरासानस्यौल:, " विपक्षान्मारिता दिल्लीमध्ये ढोल्ला ||]
************
कश्चिद्वन्दी वीरहम्मीरप्रयाणमनुवर्णयति — यदैव ढिल्लीमध्ये प्रयाणडिण्डिमः समाहतस्तदानीमेव मूच्छितं म्लेच्छशरीरैः । अनन्तरं च पुरस्कृतजजलमन्त्रिवरः चलितो वीरहम्मीरः । ततश्च हस्त्यश्वपदातिचरणभरेण मेदिनी कम्पते । दिङ्मार्गे नभसि चान्धकारः स्फुरति । धूलि : सूर्यरथमाच्छादयति । एवं दिङ्मार्गे नभोमार्गे चान्धकारो विस्तृतिमानीतः । खुरासानस्य ओलो दण्डः, हे राजन् त्वं चरणमद (र्द) नेन दमसि (दाम्यसि ) विपक्षान् । किमुत संग्रामेण । एवं यस्य तवाहतो डिण्डिमो ढिल्लीमध्ये इति । उवणिका यथा-SSS, IS, III, SIIS, IS, I, IISS, SS, III, IIISI, SS, I, IIISI, SS, ISI, IIS, IS, II, III, SS, ISI, SII, IIS, II, III, SS, IS, IS, IS, S, M, IS, ISI, SS, IIS, S.
"
उवणिकामेव स्पष्टीकरोति-
·
पढमहि दोहाचारिपअ चउपअ कव्वह देहु ।
ईम कुंडलिआ अंप पर पर जमक कुहु ॥ ११८ ॥
[प्रथमं दोहाचतुष्पदं चतुष्पदं काव्यस्य दत्थ ।
एवं कुण्डलिकामष्टपदीं पदे पदे यमकं कुरुत ||]
प्रथममेव द्विपथाचतुष्पदं ततश्चतुष्पदं काव्यस्य दत्थ । एवं कुण्डलिकामष्टपदीं पदे पदे यमकं च कुरुत | दोहा च्छन्दः ॥
पशुपतिस्तु आदौ दोहा । ततः सोरहा, अर्थाद्विपरीतदोहा । ततः काव्यमिति कुण्डलिकालक्षणमाह । तस्मिन्पक्षे एकशतं द्विनवतिर्मात्रा भवन्ति ॥
अथ गगनाङ्गनं छन्द:
पअ प ठवहु जाणि गअणंगउ मत्तविहूसिणा,
भाअउ वीस कलअ सरअग्गल लहुगुरुसेसिणा ।
पढमहि मत्तचारिगण किज्जइ गणह पसिओ
वीसक्खर सभह पअह पिअ गुरु अन्त पसिओ ॥ ११९ ॥
[पदं पदं स्थापयत ज्ञात्वा गगनाङ्गनं मात्राविभूषितं, भवत्सु विंशतिः कलाः शराधिका लघुगुरुशेषिताः ।
१. 'अनेन ( प्रकारेण ) ' रवि ०.